________________
શ્રાવક પ્રજ્ઞપ્તિ ૦ ૨૯૫
ભોગની માગણી કરે અથવા અંગમર્દન કરે, અથવા શબ્દ, રૂપ, ૨સ, ગંધ અને સ્પર્શ એ પાંચ વિષયોની અભિલાષા રાખે, બ્રહ્મચર્ય પૌષધ ક્યારે પૂર્ણ થશે એવી આતુરતા રાખે, બ્રહ્મચર્ય વડે અમે ભોગોથી વંચિત કરાયા એ પ્રમાણે વિચારે. અવ્યાપારપૌષધમાં સાવદ્ય કાર્યો કરે, મેં અમુક અનુષ્ઠાન કર્યું કે નહિ એ પ્રમાણે વિચારે, અર્થાત્ મૈં અમુક અનુષ્ઠાન કર્યું કે નહિ એ યાદ ન હોય. આ પ્રમાણે પાંચ અતિચારોથી વિશુદ્ધ પૌષધનું પાલન કરવું જોઇએ. (૩૨૪)
उक्तं सातिचारं तृतीयं शिक्षापदव्रतमधुना चतुर्थमुच्यतेनायागयाण अन्नाइयाण तह चेव कप्पणिज्जाणं । देसद्धसद्धसक्कारकमजुयं परमभत्तीए ॥ ३२५ ॥ [ न्यायागतानां अन्नादीनां तथा चैव कल्पनीयानाम् । देशकालश्रद्धासत्कारक्रमयुक्तं परमभक्त्या ॥ ३२५ ॥] न्यायागतानामिति, न्यायो द्विजक्षत्रियविट्शूद्राणां स्ववृत्त्यनुष्ठानं । स्ववृत्तिश्च प्रसिद्धैव प्रायो लोकहेर्या । तेनेदृशन्यायेनागतानां प्राप्तानामनेनान्यायागतानां प्रतिषेधमाह । अन्नादीनां द्रव्याणां आदिग्रहणात्पानवस्त्रपात्रौषधभेषजादिपरिग्रहः । अनेनापि हिरण्यादिव्यवच्छेदमाह । कल्पनीयानामिति उद्गमादिदोषपरिवर्जितानां । अनेनाकल्पनीयानां निषेधमाह । देशकाल श्रद्धासत्कारक्रमयुक्तं नानाव्रीहिकोद्रवकङ्गगोधूमादिनिष्पत्तिभाग्देशः । सुभिक्षदुर्भिक्षादिः कालः । विशुद्धचित्तपरिणामः श्रद्धा । अभ्युत्थानासनदानवंदनाद्यनुव्रजनादिः सत्कारः । पाकस्य पेयादिपरिपाट्या प्रदानं क्रमः । एभिर्देशादिभिर्युक्तं समन्वितं । अनेनापि विपक्षव्यवच्छेदमाह । परमया प्रधानया भक्त्या इत्यनेन फलप्राप्तौ भक्तिकृतमतिशयमाहेति ॥ ३२५ ॥
आयाणुग्गहबुद्धीड़ संजयाणं जमित्थ दाणं तु ।
एयं जिणेहि भणियं, गिहीण सिक्खावयं चरिमं ॥ ३२६ ॥ [आत्मानुग्रहबुद्ध्या संयतेभ्यः यदत्र दानं तु ।
एतद् जिनैः भणितं गृहिणां शिक्षापदं चरमम् ॥ ३२६ ॥] आत्मानुग्रहबुद्ध्या न पुनर्यत्यनुग्रहबुद्धयेति, तथाहि — आत्मपरानुग्रहपरा एव यतयः । संयता मूलोत्तरगुणसंपन्नाः साधवस्तेभ्यो दानमिति । एतज्जिनैस्तीर्थकरैर्भणितं गृहिणः श्रावकस्य शिक्षापदमिति शिक्षापदव्रतं चरमं