________________
શ્રાવક પ્રજ્ઞપ્તિ - ૧૪૭
तथा तेन प्रकारेण वधभावे व्यापत्तिकरणे पापक्षय एव न त्वार्तध्यानतो बन्धस्तेषां दुःखितानामपि किं प्रमाणं न किंचिदित्यर्थः, अत्राह - नारकन्यायोपगं वचनं नारकन्यायानुसारि वचनं प्रमाणमिति ॥ १३५ ॥
અહીં ઉત્તર કહે છે—
ગાથાર્થ ટીકાર્થ— તે રીતે મારી નાખવામાં દુઃખી જીવોને પાપક્ષય જ થાય, આર્ત્તધ્યાનથી કર્મબંધ ન થાય તેમાં શું પ્રમાણ છે ? અર્થાત્ કોઇ પ્રમાણ નથી. અહીં પૂર્વપક્ષવાદી કહે છે– નારકોના દૃષ્ટાંતને અનુસરનારું વચન પ્રમાણ છે. (૧૩૫)
एतदेव भावयति-—
तेसिं वहिज्जमाण वि, परमाहम्मिअसुरेहि अणवरयं । रुज्झाणगयाण वि, न तहा बंधो जहा विगमो ॥ १३६ ॥ [तेषां वध्यमानानामपि परमाधार्मिकसुरैरनवरतम् । रौद्रध्यानगतानामपि न तथा बन्धो यथा विगमः ॥ १३६ ॥] तेषां नारकाणां वध्यमानानां हन्यमानानामपि कै: परमाधार्मिकसुरैरम्बादिभिरनवरतं सततं रौद्रध्यानगतानामपि न तथा बन्धो यथा विगमः कर्मणो दुःखानुभवादिति गाथार्थः ॥ १३६ ॥
આ જ વિચારે છે—
ગાથાર્થ ટીકાર્થ પરમાધામી દેવોથી સતત હણાતા નારકો રૌદ્રધ્યાનને પામેલા હોવા છતાં તેમને તેટલો કર્મબંધ થતો નથી કે જેટલો દુ:ખના અનુભવથી કર્મક્ષય થાય છે. (૧૩૬)
कथमेतन्निश्चीयत इत्यत्राह
नरगाउबंधविरहा, अनंतरं तंमि अणुववत्तीओ ।
तदभावेवि य खवणं, परुप्परं दुक्खकरणाओ ॥ १३७ ॥
[ नरकार्युर्बन्धविरहादनन्तरं तस्मिन्ननुत्पत्तेः ।
तदभावेऽपि च क्षपणं परस्परं दुःखकरणात् ॥ १३७ ॥] नरकायुर्बन्धविरहात् न कदाचिन्नारको नरकायुर्बध्नाति, अत्रैव युक्तिमाहअनन्तरं नरकोद्वर्तनसमनन्तरमेव तस्मिन्नरक एवानुत्पत्तेरनुत्पादात् न चाव्यवहितमुत्पद्यत इति सिद्धान्तः, ततश्च यथेदं न वध्नाति तथान्यद