________________
શ્રાવક પ્રજ્ઞપ્તિ • ૧૦૩ [संशयकरणं शङ्का काङ्क्षान्योन्यदर्शनग्राहः । सत्यपि विचिकित्सा सिध्येत न मेऽयमर्थः ॥ ८७ ॥]
संशयकरणं शङ्का भगवदर्हत्प्रणीतेषु पदार्थेषु धर्मास्तिकायादिष्वत्यन्तगहनेषु मतिदौर्बल्यात्सम्यगनवधार्यमाणेषु संशय इत्यर्थः । किमेवं स्यान्नैवमिति । सा पुनर्द्धिभेदा देशसर्वभेदात् । देशशङ्का देशविषया, यथा किमयमात्मासङ्ख्येयप्रदेशात्मकः स्यादथ निःप्रदेशो निरवयवः स्यादिति । सर्वशङ्का पुनः सकलास्तिकायव्रात एव किमेवं स्यानैवमिति । काङ्क्षान्योन्यदर्शनग्राहः । सुगतादिप्रणीतेषु दर्शनेषु ग्राहोऽभिलाष इति । सा पुनर्दिभेदा देशसर्वभेदात् । देशविषया एकमेव सौगतं दर्शनमाकाङ्क्षति चित्तजयोऽत्र प्रतिपादितोऽयमेव च प्रधानो मुक्तिहेतुरिति अतो घटमानकमिदं न दूरापेतमिति । सर्वकाङ्क्षा तु सर्वदर्शनान्येव काङ्क्षति अहिंसाप्रतिपादनपराणि सर्वाण्येव कपिलकणभक्षाक्षपादमतानीह लोके च नात्यन्तक्लेशप्रतिपादनपराणि अतः शोभनान्येवेति ॥ सत्यपि विचिकित्सा सिध्येत न मेऽयमर्थ इति । अयमत्र भावार्थ:- विचिकित्सा मतिविभ्रमः, युक्त्यागमोपपन्नेऽप्यर्थे फलं प्रति संमोहः। किमस्य महतस्तपःक्लेशायासस्य सिकताकणकवलकल्पस्य कनकावल्यादेशयत्यां मम फलसंपद्भविष्यति किं वा नेति । उभयथेह क्रियाः फलवत्यो निष्फलाश्च दृश्यन्ते कृषीवलानाम् । न चेयं शङ्कातो न भिद्यते इत्याशङ्कनीयम् । शङ्का हि सकला सकलपदार्थभाक्त्वेन द्रव्यगुणविषया। इयं तु क्रियाविषयैव । तत्त्वतस्तु सर्व एते प्रायो मिथ्यात्वमोहनीयोदयतो भवन्तो जीवपरिणामविशेषाः सम्यक्त्वातिचारा उच्यन्ते । न सूक्ष्मेक्षिका अत्र कार्येति । अथवा विचिकित्सा विद्वद्जुगुप्सा । विद्वांसः साधवो विदितसंसारस्वभावाः परित्यक्तसर्वसङ्गास्तेषां जुगुप्सा निन्दा । तथाहितेऽस्नानात्प्रस्वेदजलक्लिन्नमलिनत्वात् दुर्गन्धवपुषो भवन्ति । तान्निन्दति । को दोषः स्याद्यदि प्राशुकेन वारिणाङ्गप्रक्षालनं कुर्वीरन् भगवन्त इति । इयमपि न कार्या । देहस्यैव परमार्थतोऽशुचित्वादिति ॥ ८७ ॥
ગાથાર્થ સંશય કરવો તે શંકા. અન્ય અન્ય દર્શનની અભિલાષા તે કાંક્ષા, યુક્તિ અને આગમથી પદાર્થ સિદ્ધ થવા છતાં “આ મારું કાર્ય સિદ્ધ થશે કે નહિ” એવો સંશય કરવો તે વિચિકિત્સા.