SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ श्रुतमदव्युदासमार्याद्वयेनाहमाषतुषोपाख्यानं, श्रुतपर्यायप्ररूपणं चैव । श्रुत्वाऽतिविस्मयकरं, च विकरणं स्थूलभद्रमुनेः ॥ ९५ ॥ मदः कथं कार्य इति द्वितीयार्यायां सम्बन्धः । किं कृत्वा ? माषतुष इतिपदेन समयप्रसिद्धेनोपलक्षितः साधुस्तस्योपाख्यानं-कथानकं तत्तथा । तस्य हि माषतुषसाधोः श्रुतरहितस्यापि निर्वृतिर्जातेति श्रुत्वेति योगः । तथा श्रुतस्यआगमस्य पर्यायाः-भेदा यथा-कश्चिदेकार्थवादी कश्चिद्बह्वर्थवादी एकस्यैव सूत्रस्य, तेषां प्ररूपणा-वर्तना तां, चैवेति समुच्चये । श्रुत्वा-आकर्ण्य तथाऽतिविस्मयकरं-स्वाश्चर्यविधायकं । किं तत् ? विकरणं च। चस्यात्र सम्बन्धः । विक्रियाकृतशेषश्रुतदाननिषेधमिति शेषः । श्रुत्वा । कस्य ? स्थूलभद्रमुनेः । यथा तेन निजभगिन्या आत्मा सिंहकरणगर्वेण दर्शित इति ॥ ९५ ॥ सम्पर्कोद्यमसुलभं, चरणकरणसाधकं श्रुतज्ञानम् । लब्ध्वा सर्वमदहरं, तेनैव मदः कथं कार्यः ? ॥ ९६ ॥ सम्पर्कश्च-पण्डितसंसर्गः उद्यमश्च-प्रोत्साहस्तौ तथा ताभ्यां सुलभं-सुप्रापं । तथा चरणकरणयोः प्रसिद्धयोः साधकं-निर्वर्तकं । किमेवंविधम् ? श्रुतज्ञानं । ततस्तल्लब्ध्वा सर्वमदहरं तेनैव मदः कथं कार्यः ? । सर्वथा गर्वो न विधेयः । यत उक्तम्- 'ज्ञानं मददर्पहरं माद्यति यस्तेन तस्य को वैद्यः ? । अमृतं यस्य विषायति तस्य चिकित्सा कथं क्रियते ? ॥ १॥' इति ॥ ९६ ॥ શ્રતમદના ત્યાગને બે આર્યાઓથી કહે છે ગાથાર્થ– માપતુષ મુનિની કથાને, શ્રુતપર્યાયપ્રરૂપણાને અને અતિશય વિસ્મયકારી સ્થૂલભદ્ર મુનિની વિક્રિયાને સાંભળીને, સંપર્ક-ઉદ્યમથી સુલભ, ચરણ-કરણના સાધક અને સર્વપ્રકારના મદનો નાશ કરનારા શ્રુતજ્ઞાનને મેળવીને શ્રુતજ્ઞાનથી જ મદ શા માટે કરવો જોઇએ ? ટીકાર્થ–માષતષ મુનિની કથાને સાંભળીને– શ્રુતિરહિતપણ માપતુષ મુનિની મુક્તિ થઈ એમ સાંભળીને. प्रशभरति • ७३
SR No.023402
Book TitlePrashamrati Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay
PublisherArihant Aradhak Trust
Publication Year2006
Total Pages272
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy