________________
तत्त्वश्रद्धानम्, चारित्रं-सामायिकादि पञ्चधा, ध्यानं-धर्मादि द्विधा, ततो द्वन्द्वस्तैर्युक्तस्येति ॥ ५९ ॥ प्राणवधानृतभाषणपरधनमैथुनममत्वविरतस्य । नवकोट्युद्गमशुद्धोञ्छमात्रयात्राऽधिकारस्य ॥ ६० ॥ प्राणवधेत्यादिप्रथमार्धेन सुखबोधेन मूलगुणयुक्तस्येति कथितम् । अथोत्तरगुणयुक्ततामाह-नव च ताः कोटयश्च-अग्रभागा अंशा अश्रयो नवकोट्यः, ताश्चैवं-न स्वयं हन्ति १ नान्येन घातयति २ घ्नन्तमन्यं नानुमोदयति ३, एवं न पचति १ न पाचयति २ पचन्तं नानुमोदयते ३, एवं न क्रीणाति १ न कापयति २ क्रीणन्तं नानुमोदयते ३, एता मीलिता नव कोटयः, पुनरिमा द्विधा-आद्याः षट् अविशुद्धकोटयोऽन्त्यास्तिस्रो विशुद्धकोटयः । तथोद्गमः-उत्पत्तिः, यथा 'उग्गमं से य पुच्छेज्जा' इत्यादि, ततो नवकोटिभिरुद्गमस्तेन शुद्धो-निर्दोषस्तथोञ्छ इवोञ्छ:-शुद्धाहारः स एवोञ्छमात्रम् । ततश्च नवकोट्युद्गमशुद्धं च तदुञ्छमात्रं च तत्तथाभूतं-निर्दोष आहारस्तेन यात्रायां-संयमे अधिकारो-नियोगो यस्य स तथा तस्येति ॥ ६० ।। जिनभाषितार्थसद्भावभाविनो विदितलोकतत्त्वस्य । अष्टादशशीलसहस्रधारणे कृतप्रतिज्ञस्य ॥ ६१ ॥ जिनभाषितार्थानां-जीवादिवस्तुनां सद्भावान्-परमार्थान् भावयति स तथा तस्येति । विदितलोकतत्त्वस्य-ज्ञातलोकस्वरूपस्य । लोकश्च-जीवाजीवाधारक्षेत्रं । अष्टादशानां शीलानाम्-अवयवे समुदायोपचारात् शीलाङ्गानां-चारित्रांशानां वक्ष्यमाणानां सहस्राणि तेषां धारणं-परिपालनं तस्मिन् कृता-विहिता प्रतिज्ञाअङ्गीकारो येन स तथा तस्येति ॥ ६१ ॥ परिणाममपूर्वमुपागतस्य शुभभावनाऽध्यवसितस्य । अन्योऽन्यमुत्तरोत्तरविशेषमभिपश्यतः समये ॥ ६२ ॥ उपागतस्य-प्राप्तस्य । कम् ? परिणाम-धर्माध्यवसायम् । कीदृशम् ? अपूर्व शुद्धिप्रकर्षयोगात्, शुभभावनासु-द्वादशविधासु महाव्रतसत्कपञ्चविंशतिप्रमाणासु वाऽध्यवसितस्य-कृताध्यवसितस्येति समासः । अभिपश्यतः
પ્રશમરતિ ૫૦