________________
છે.) તેથી બે વેદનીયના ભેદો, ૨૮ મોહનીયના ભેદો, ચાર આયુષ્યના मेही, ६ x ७=४२ नमन। मेहो, वे गोत्राना मेहो भने पांय अंतरायना भेहो. (माम दुल ८७ (मेको छ.) (34)
अथ प्रकृतिबन्धस्वरूपपुरःसरमेतासामेवानन्तरोक्तमूलोत्तरप्रकृतीनां स्थितिबन्धादीनाश्रित्य तीव्रादिबन्धोदयानाहप्रकृतिरियमनेकविधा, स्थित्यनुभावप्रदेशतस्तस्याः । तीव्रो मन्दो मध्य इति, भवति बन्धोदयविशेषः ॥ ३६ ॥ प्रकृतिरिति जातावेकवचनम् । इयं पूर्वोक्तस्वरूपा अनेकविधा-बहुप्रकारा, मूलोत्तरभेदतो वर्तत इति शेषः । अनेन प्रकृतिबन्ध इति प्रतिपादितं भवति । तस्याः प्रकृतेः स्थित्यादीनासृत्य तीव्रादिभेदो बन्धोदयविशेषो भवतीति संटड्कः। तत्र स्थितिः प्रकृतेर्बद्धायाः सत्या अविनाशेनावस्थानम् । अनुभावस्तु तस्या एव कटुककटुकतरादिभावेन वेदनम् । प्रदेशस्तु कर्मपुद्गलानामात्मप्रदेशैः सह संश्लेषः । ततो द्वन्द्वः, ते तथा तेभ्यः-ततः सकाशात्, तानाश्रित्येत्यर्थः । तस्या इति योजितमेव । किम् ? तीव्रो-गाढस्तथा मन्दः-स्तोकः तथा मध्यो-मध्यवर्तीत्येवं भवति-जायते बन्ध-संग्रह उदयःअनुभवनम्, तयोविशेषो-भेदो यः स तथा, बन्धविशेषः उदयविशेषश्चेत्यर्थ इति । किमुक्तं भवति ? यदा प्रकृतेः स्थितिरुत्कृष्टा भवति तदा अनुभावप्रदेशावप्युत्कृष्टौ भवतः, ततस्तस्यामुत्कृष्टस्थितौ तीव्रौ बन्धोदयौ स्याताम्, एतदनुसारेण मन्दमध्यौ तौ भावनीयाविति । उत्कृष्टा स्थितिर्यथा'आइल्लाणं तिण्हं चरिमस्स य तीस कोडिकोडीओ । अयराण मोहणिज्जस्स सत्तरी होइ विनेया ॥ १ ॥ नामस्स य गोत्तस्स य वीसं उक्कोसिया ठिई भणिया । तेत्तीस सागराइं परमा आउस्स बोद्धव्वा ॥ २ ॥ जघन्या तुवेयणियस्स उ बारस नामगोयाण अट्ठ उ मुहुत्ता। सेसाण जहन्नठिई भिन्नमुहत्तं विणिद्दिट्ठा ॥ ३ ॥' तदनयाऽऽर्यया प्रकृतिबन्धः स्थितिबन्धोऽनुभागबन्धः प्रदेशबन्धश्च प्रकृत्युदयः स्थित्युदयोऽनुभावोदयः प्रदेशोदयश्चोक्तो ज्ञेय इत्यार्यार्थः ॥ ३६ ॥
પ્રશમરતિ • ૩૩