________________
च द्विःपञ्च, ते भेदा यस्य स तथा, इत्येवमेकत्र मिलने सप्तनवतिभेदा भवन्तीति शेषः । तथा समुच्चयार्थः, उत्तरतः-उत्तरभेदानाश्रित्य, अयमर्थःज्ञानावरणीयमुत्तरभेदापेक्षया मतिज्ञानावरणीयादि पञ्चधा । एवं दर्शनावरणीयं चक्षुर्दर्शनावरणादिचतुष्कं निद्रापञ्चकं चेति नवविधम् । वेदनीयं तु सातासातरूपं द्वधा । मोहनीयं पुनर्द्विधा-दर्शनमोहनीयं चारित्रमोहनीयं च, तत्र मिथ्यात्वमिश्रसम्यक्त्वभेदात् दर्शनमोहनीयं विधा, अनन्तानुबन्धिप्रभृतिकषायषोडशकहास्यादिषट्कवेदत्रिकभेदाच्चारित्रमोहनीयं पञ्चविंशतिविधमित्युभयमीलनेऽष्टाविंशतिभेदम् । आयुर्नरकादिभेदाच्चतुर्धा । नामकर्म तु द्विचत्वारिंशद्भेदं, तत्र गतिजात्यादिपिण्डप्रकृतयश्चतुर्दश, प्रत्येकप्रकृतयोऽष्टी, त्रसादिविंशतिरिति मीलिता द्विचत्वारिंशत् । तथा गोत्रमुच्चैर्नीचैर्भेदाद् द्वेधा । दानादिभेदादन्तराय(कर्म) पञ्चविधमिति । यद्यपि केनापि अभिप्रायेण सप्तनवतिः प्रतिपादिता तथापि बन्धप्रस्तावाद्विशत्यधिकं शतं ग्राह्यम् । तच्च नाम्नः कथंचित्पिण्डप्रकृ(ग्रं० २००)तिविस्तारे षट्सप्तति(षष्टि)र्भवति, तस्याः सप्तकर्मप्रकृतिमध्यप्रक्षेपे सम्यक्त्वमिश्रद्वयापनये च विंशत्यधिकं शतं भवति। तदुक्तम्-'चउ गइ ४ जाई ५ तणु पण ५ अंगोवंगाई ३ छच्च संघयणा ६ । छागिइ ६ चउ वनाई ४ चउ अणुपुव्वि ४ दुह विहगगई २ ॥ १ ॥ इय गुणचत्ता ३९ सेसऽट्ठवीस २८ मिय सत्तसट्ठि ६७ नामस्स । सेससगकम्म ५५ जोगे सम्मामीस विणु वीससयं ॥ २ ॥' विस्तारतः प्रकृतिवर्णनाद्यन्यतोऽवसेयमिति । अन्ये त्वेवमाहुः-पञ्च नव द्व्यष्टाविंशतिश्चतुरित्यादिपाठान्तरमाश्रित्य यथा पञ्च नवेति पदद्वयं प्रथमाबहुवचनान्तम्, ततश्चाग्रेतनभेदशब्दोऽन्यशब्दसम्बद्धोऽपि इत्थं योज्यते-पञ्च भेदा ज्ञानावरणस्य नव भेदा दर्शनावरणस्य । द्वा(भ्यां) वेदनी(या)भ्यां युक्ता अष्टाविंशतिः सा तथा । ततो द्वौ भेदौ वेद्यस्य अष्टाविंशतिर्भेदा मोहनीयस्य । तथा चत्वारश्च षट्कसप्तगुणश्च ते भेदा यस्य बन्धस्य स तथा । ततश्च चत्वारो भेदा आयुषः, षट्कसप्तगुणो-द्विचत्वारिंशद्भेदा नाम्नः, द्वौ वारौ द्विः, द्विश्च पञ्च च ते तथा भेदा यस्य स तथा । तत्र भेदद्वयं गोत्रस्य, पञ्च भेदा अन्तरायस्येति ॥ ३५ ॥
प्रशभरति • 30