________________
इदानीं यदिमां प्रशमरतिं श्रुत्वा प्राप्यते तदाद्वियेनाहइत्येवं प्रशमरतेः, फलमिह स्वर्गापवर्गयोश्च शुभम् । संप्राप्यतेऽनगारैरगारिभिश्चोत्तरगुणाढ्यैः ॥ ३०९ ॥ इह चतुर्थगणः पञ्चमात्र इति । एतत्फलं-जन्यं । कुतः ? प्रशमरतेः सकाशात् । कीदृशम् ? शुभमिह स्वर्गापवर्गयोश्च प्राप्यते । कैः ? अनगारैः-साधुभिः, तथा अगारिभिः-गृहिभिश्च उत्तरगुणाढ्यैः-निजभूमिकापेक्षया पिण्डविशुद्धयादिदिग्व्रतादिसमृद्धैरिति ॥ ३०९ ॥
जिनशासनार्णवादाकृष्टां धर्मकथिकामिमां श्रुत्वा ।
रत्नाकरादिव जरत्कपर्दिकामुद्धृतां भक्त्या ॥ ३१० ॥ __ जिनशासनार्णवात्-तीर्थकृदागमसिन्धोराकृष्टां-आनीतां धर्मकथिकांद्विविधधर्मप्रतिपादिकामिमां-प्रशमरतिमेतच्छास्त्रं कर्मतापन्नं । किं कृत्वा ? श्रुत्वा-आकर्ण्य । कस्मादिव काम् ? रत्नाकरादिव जरत्कपर्दिकां-जीर्णवराटिकां, समुद्धृतां-समाकृष्टां । कया ? भक्त्या-प्रशमप्रीत्या । अयमर्थःआकृष्टामिति जिनशासनादित्यत्र योज्यम् । उद्धृतामिति रत्नाकरादित्यत्र सम्बन्धनीयम् । अत्रायद्वयक्रिया-कारकघटनैवं बोद्धव्या-इमां धर्मकथिकां श्रुत्वा फलं शुभं प्रशमरतेः संप्राप्यतेऽनगारैरगारिभिश्चेति ॥ ३१० ॥
હવે આ પ્રશમરતિ ગ્રંથને સાંભળીને જે પ્રાપ્ત થાય છે તેને બે मायामोथी 53 छ
थार्थ- समुद्रमाथी पसायेसी ओडी दीपा होय तेभ (भक्त्या=) પ્રશમના પ્રેમથી જિનાગમ રૂપ સમુદ્રમાંથી લાવેલી (=લીધેલી) આ ધર્મકથાને ( પ્રશમરતિ પ્રકરણને) સાંભળીને પિંડવિશુદ્ધિ આદિ ઉત્તરગુણોથી યુક્ત સાધુઓ અને દિશાપરિમાણ વગેરે ઉત્તરગુણોથી યુક્ત श्रावो (इत्येवं=) मा ग्रंथम या प्रभारी प्रशमतिर्नु मादीमi, સ્વર્ગમાં અને મોક્ષમાં શુભફળ પ્રાપ્ત કરે છે. (૩૦૯-૩૧૦)
साम्प्रतं सत्पुरुषैर्यादृग्गुणोपेतैर्ये त्याज्या ये च ग्राह्या यन्निमित्तश्च यत्नो विधेयस्तदेतत्सर्वमाह
પ્રશમરતિ - ૨૪૬