SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ अग्रेतनानि साधुविशेषणान्याह - नित्योद्विग्नस्यैवं, क्षमाप्रधानस्य निरभिमानस्य । धुतमायाकलिमलनिर्मलस्य जितसर्वतृष्णस्य ॥ २५० नित्योद्विग्नस्य-संसारस्योपरि उद्वेगं कुर्वतः क्षमाप्रधानस्य निरभिमानस्यजितकोपाहङ्कारस्य धुतमायाकलिमलः- अपनीतमायापापः स चासौ निर्मलश्च स तथा तस्य । जितसर्वतृष्णस्य निर्जिताशेषलोभस्येति ॥ २५० ॥ तुल्यारण्यकुलाकुलविविक्तबन्धुजनशत्रुवर्गस्य । समवासीचन्दनकल्पनप्रदेहादिदेहस्य ॥ २५९ ॥ तुल्यौ-समानौ अरण्यकुलाकुलौ प्रदेशौ यस्य जीवस्य स तथा, तत्रारण्यंअटवी कुलानि - उग्रादीनि तैराकुलः - आकीर्ण इति । विविक्तौ - पृथग्भूतौ बन्धुजनशत्रुवर्गों यस्य स तथा । ततोऽनयोः कर्मधारयस्तस्य । वासी चन्दनं च ते तथा, ताभ्यां कल्पनप्रदेहौ - छेदनविलेपने तावादी येषां ते तथा । समः-तुल्यो वासीचन्दनकल्पनप्रदेहादिषु देहः - शरीरं यस्य स तथा तस्य, इह प्रदेहशब्देनानुलेपनं 'दिह उपचय' इति धातुप्रयोगादिति ॥ २५१ ॥ आत्मारामस्य सतः, समतृणमणिमुक्तलेष्टुकनकस्य । स्वाध्यायध्यानपरायणस्य दृढमप्रमत्तस्य ॥ २५२ ॥ आत्मारामस्य-कृतजीवाभिरतेः । सतः - शोभनस्य । समौ - तुल्यौ तृणमणी यस्य स तथा । मुक्ते लेष्टुकनके येन स तथा । ततः कर्मधारयस्तस्य । स्वाध्यायध्यानपरायणस्येति व्यक्तं । दृढं अत्यर्थमप्रमत्तस्य - प्रमादरहितस्येति ॥ २५२ ॥ 1 अध्यवसायविशुद्धेः, प्रशस्तयोगैर्विशुध्यमानस्य । चारित्रशुद्धिमग्र्यामवाप्य लेश्याविशुद्धि च ॥ २५३ ॥ अध्यवसायविशुद्धेः सकाशात् प्रशस्तयोगैः - शुभमनोवाक्कायैर्विशुध्यमानस्यनिर्मलतां गच्छतः । तथा अवाप्य - प्राप्य । काम् ? चारित्रशुद्धिम् । कीदृशीम् ? अग्ग्रां-उत्तरोत्तरकालभाविनीं । लेश्याविशुद्धि चेति ॥ २५३ ॥ પ્રશમરતિ • ૨૦૯
SR No.023402
Book TitlePrashamrati Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay
PublisherArihant Aradhak Trust
Publication Year2006
Total Pages272
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy