________________
પરોક્ષજ્ઞાન-ઇન્દ્રિયો અને મનની સહાયથી થતું જ્ઞાન. પ્રત્યક્ષજ્ઞાન ઇન્દ્રિયો અને મનની સહાય વિના કેવળ આત્માથી થતું शान.] (२२४)
तदेवाहतत्र परोक्षं द्विविधं, श्रुतमाभिनिबोधिकं च विज्ञेयम् । प्रत्यक्षं त्ववधिमनःपर्यायौ केवलं चेति ॥ २२५ ॥
तत्र-तयोर्मध्ये परोक्षं द्विविधं-द्विभेदं श्रुतं-श्रुतज्ञानं आभिनिबोधिकंमतिज्ञानं विज्ञेयम् । प्रत्यक्षं पुनरवधिमनःपर्यायौ केवलं चेतीति-त्रिविधमिति च सुबोधमिति ॥ २२५ ॥ બે પ્રકારના જ્ઞાનને જ કહે છે
ગાથાર્થ- તે બે જ્ઞાનમાં પરોક્ષજ્ઞાન શ્રત અને મતિ એમ બે પ્રકારનું જાણવું. પ્રત્યક્ષજ્ઞાન અવધિ, મન:પર્યવ અને કેવળ એમ ત્રણ પ્રકારનું જાણવું. (मति माह शाननी व्याच्या १८५i दोभ ४९॥वी छे.) (२२५)
एषामुत्तरभेदविषयादिभिर्भवति विस्तराधिगमः । एकादीन्येकस्मिन्, भाज्यानि त्वाचतुर्थ्य इति ॥ २२६ ॥
एषां-मत्यादिज्ञानानां उत्तरभेदा-अष्टाविंशतिचतुर्दशविधषड्विधद्विविधैकभेदादयो, विषयो-गोचरो मतिश्रुतयोः सामान्यद्रव्येष्वसर्वपर्यायेषु अवधिज्ञानस्य रूपिषु मनःपर्यायज्ञानस्य मनोगतद्रव्येषु केवलस्य सर्वद्रव्यपर्यायेषु, आदिशब्दात् स्वरूपलाभक्रमक्षेत्रादिपरिग्रहः, समासस्त्वेवं-उत्तरभेदाश्च विषयाश्च ते आदिर्येषां ते तथा तैरुत्तरभेदविषयादिभिः करणभूतैर्भवति-जायते विस्तराधिगमो-विस्तरपरिच्छेदः । तथा एकद्वित्रिचतुःसंख्यानि एकस्मिन् जीवे भाज्यानि तु-विकल्पनीयानि पुनः आचतुर्थ्यः-चत्वारि यावत्, एकस्मिन् जीवे एकं मतिज्ञानं शास्त्रपाठश्रवणाभावात्, तत्त्वतस्तु मतिश्रुते सर्वत्र, तथा द्वे मतिश्रुते, तथा त्रीणि मतिश्रुतावधिज्ञानानि, तथा चत्वारि मतिश्रुतावधिमनःपर्यायज्ञानानि, नतु पञ्च, केवलज्ञाने सत्येषामभावादिति ॥ २२६ ॥
પ્રશમરતિ - ૧૯૩