________________
मा प्रभारी के मायामोनो अर्थ छे. (२) 'जिनशासनात् किंचिद्वक्ष्य' इत्युक्तम्, अबहुश्रुतानां तु सकष्टस्तत्र प्रवेश इति सदृष्टान्तमार्याद्वयेनाह
यद्यप्यनन्तगमपर्ययार्थहेतुनयशब्दरत्नाढ्यम् । सर्वज्ञशासनपुरं, प्रवेष्टुमबहुश्रुतैर्दुःखम् ॥ ३ ॥ यद्यपीत्यादिना सकष्टस्तत्र प्रवेश इति प्रतिपादितम् ।, अनन्ताअपर्यवसानास्ते च ते गमपर्ययार्थहेतुनयशब्दाश्च तथाविधाः एव रत्नानिमणयस्तैराढ्यं-समृद्धं तत्तथा, तत्र गमाः-सदृशपाठाः, पर्याया-घटादिशब्दानां कुटादिरूपाणि नामान्तराणि, अर्थाः- शब्दानामभिधेयानि, हेतवः-अन्यथाऽनुपपत्तिलक्षणाः, नया-नैगमादयः, शब्दा-घटादयः । इत्येतत् किमित्याहसर्वज्ञशासनं-जिनागमस्तदेव पुरं-नगरम्, तत् प्रवेष्टुं-अन्तर्गन्तुम्, अबहुश्रुतैःअल्पागमैर्दुःखं-सकष्टं, वर्तत इति शेषः ॥ ३ ॥
श्रुतबुद्धिविभवपरिहीणकस्तथाऽप्यहमशक्तिमविचिन्त्य । द्रमक इवावयवोञ्छकमन्वेष्टुं तत्प्रवेशेप्सुः ॥ ४ ॥
श्रुतम्-आगमः, बुद्धिः-औत्पत्त्यादिका मतिः, ते एव सर्वकार्यसाधकत्वात् विभवो-धनं तेन परिहीणको-रहितः स तथाविधः सन् । तथापि-एवमपि, अहमपि कर्तृभूतात्मनिर्देशः । अशक्तिम्-असामर्थ्यम्, अविचिन्त्य-अविगणय्य, द्रमक इव-रङ्क इव, अवयवानाम्-अर्धधान्यानामुञ्छको-मीलनमवयवोञ्छकस्तम्, अन्वेष्टुं-गवेषयितुम्, तस्मिन्-सर्वज्ञशासनपुरे, प्रवेशःअन्तर्भवनम्, तत्रेप्सुः-अभिलाषुकस्तत्प्रवेशेप्सुः, वर्त इति शेषः । आर्याद्वयस्योपनयो यथा-यद्वद्रत्नाढ्यपुरमन्तः प्रवेष्टमविभवैः सकष्टं तद्वत्सर्वज्ञशासनमवबोद्धं सकष्टं वर्तत इत्याद्वियार्थः ॥ ४ ॥
જિનશાસનમાંથી કહીશ એમ કહ્યું. જેઓ બહુશ્રુત (=વિશેષ જ્ઞાની) નથી, તેમનો જિનશાસનમાં પ્રવેશ કષ્ટપૂર્વક થઈ શકે એમ દષ્ટાંતસહિત के मायामोथी ४ छ___ थार्थ- अनंत गम, पर्यय, अर्थ, उतु, नय, २०६ ३५ रत्नोथी
પ્રશમરતિ • ૬