________________
दुष्प्रापां तां विरतिं प्राप्य ततः किं कार्यमत आह— तत्-पूर्वोक्तस्वरूपं विरतिरेव रत्नं, तत् प्राप्य - लब्ध्वा विरागमार्गस्य - विरागतापथस्य विजयःपरिचयोऽभ्यसनं स तथा, किं ? दुरधिगम्यो- दुष्प्रापः । केनेत्याह-इन्द्रियादयः प्रतीतार्थास्त एव सपत्ना - वैरिणस्तैर्विधुरः -आकुलीकृतस्तेनेति ॥ १६४ ॥
દુર્લભ તે વિરતિને પામીને શું કરવું જોઇએ તે કહે છે–
ગાથાર્થ– તે વિરતિરૂપ રત્નને પામીને ઇન્દ્રિય-કષાય-ગૌરવ-પરીષહ રૂપ વૈરીઓથી વ્યાકુલ બનેલ જીવને વિરાગમાર્ગનો અભ્યાસ દુર્લભ છે. (ઇન્દ્રિય વગેરેથી આકુળ-વ્યાકુળ કરાયેલ જીવ વિરાગમાર્ગનો અભ્યાસ २वा समर्थ थतो नथी.) (१६४)
तस्मात् परीषहेन्द्रियगौरवगणनायकान् कषायरिपून् । क्षान्तिबलमार्दवार्जवसन्तोषैः साधयेद्वीरः ॥ १६५ ॥
तस्मात् कषाया एव रिपवः तान् । कीदृशान् ? परीषहेन्द्रियगौरवाणां गणःसमूहस्तस्य नायकास्तान्, गणशब्दः प्रत्येकमभिसम्बध्यते । साधयेत्-विजयेत । कः ? धीरः-बुद्धिमान्। कैरित्याह - क्षान्तिबलादिभिरिति व्यक्तम् || १६५ ||
તેથી બુદ્ધિમાન પુરુષ પરીષહગણ, ઇન્દ્રિયગણ અને ગૌરવગણના નાયક એવા કષાયરૂપ શત્રુઓને ક્ષમા-નમ્રતા-સરળતા-સંતોષના બળથી छते. (१६५)
संचिन्त्य कषायाणामुदयनिमित्तमुपशान्तिहेतुं च । त्रिकरणशुद्धमपि तयोः परिहारासेवने कार्ये ॥ १६६ ॥
1
संचिन्त्य - आलोच्य । केषाम् ? कषायाणां । किं तत् ? उदयनिमित्तंप्रादुर्भावकारणमुपशान्तेर्हेतुः कारणं स तथा तं च तयोः परिहारासेवने कार्ये, अयमर्थः कषायाणामुदयनिमित्तं परिहार्यमुपशान्तिहेतुरासेवनीयः । कथं ? त्रिकरणशुद्धं यथा भवति कायवाङ्मनोनिर्दोषं, अपिरभ्युच्चय इति ॥ १६६ ॥ ॥ इति भावनाधिकारः ॥
કષાયોના ઉદય થવાના નિમિત્તોને અને કષાયોની શાંતિ થવાના નિમિત્તોને વિચારીને કષાયોનો ઉદય થવાના નિમિત્તોનો ત્યાગ કરવો અને
પ્રશમરતિ ૦ ૧૨૬