________________
इत्थं च विहितक्रियानुष्ठानव्यग्रः सन् ऐहिकभोगकारणेषु भावयेदनित्यतामित्याह
क्षणविपरिणामधर्मा, मर्त्यानामृद्धिसमुदयाः सर्वे । सर्वे च शोकजनकाः, संयोगा विप्रयोगान्ताः ॥ १२१ ॥ क्षणेन-स्तोककालेनापि । विशब्दः कुत्सायां । विपरिणामः-कुत्सितपरिणतिर्धर्मः-स्वभावो येषां ते तथा, प्रीता अप्यप्रीता जायन्ते, स्तोककालेनान्यस्वभावा भवन्तीति भावना । केषाम् ? मानां-मनुष्याणाम् । क एवंविद्या भवन्ति ? ऋद्धिसमुदया-विभूतिनिचयाः सर्वे-अशेषाः । सर्वे च शोकजनकाः-शोकहेतवः । तथा संयोगाः-सम्बन्धाः पुत्रपत्नीप्रभृतिभिर्विप्रयोगान्ता-विरहान्ता भवन्तीति शेष इति ॥ १२१ ॥
આ પ્રમાણે વિહિત કરેલી ક્રિયાઓને કરવામાં વ્યગ્ર થયો છતો સાધુ આ લોક સંબંધી ભોગનાં સાધનોની અનિત્યતા વિચારે. આથી भनित्यताने 53 छ
ગાથાર્થ– મનુષ્યોના સઘળા સમૃદ્ધિસમૂહો (=સર્વ પ્રકારની ઋદ્ધિઓ) ક્ષણવારમાં અશુભ પરિણામ પામવાના સ્વભાવવાળા છે. (પ્રિય પણ અપ્રિય બની જાય છે, અર્થાતુ થોડા જ કાળમાં અન્ય સ્વભાવવાળા બની જાય છે.) અને અન્ય સ્વભાવવાળા થયેલા તે શોકને ઉત્પન્ન કરે છે. सर्व संयोगो वियोगना मंतवा. छ. (१२१)
यस्मादेवं तस्मान्न किंचिद्विषयसुखाभिलाषेणेति दर्शयन्नाहभोगसुखैः किमनित्यैर्भयबहुलैः काशितैः परायत्तैः ? । नित्यमभयमात्मस्थं, प्रशमसुखं तत्र यतितव्यम् ॥ १२२ ॥
भोगसुखैः-विषयसातैः किं ?, न किंचित् । कीदृशैः ? पूर्वोक्तन्यायेन भयबहुलैः-भीतिप्रचुरैः, काक्षितैः भोगसुखैः-विषयसातैरभिलषितैः परायत्तैःस्त्र्यादिपदार्थसार्थाधीनैः, तस्मात्तेष्वभिलाषमपहाय नित्यम्-आत्यन्तिकमभयम्अविद्यमानभीतिकमात्मस्थं-स्वायत्तं । किमेवंविधमित्याह-प्रशमसुखं-उपशमसातं, यत्तदेवंविधं तत् तत्र यतितव्यं-तस्मिन् यत्नः कार्य इति ॥ १२२ ॥
પ્રશમરતિ • ૯૬