________________
पैशाचिकमाख्यानं, श्रुत्वा गोपायनं च कुलवध्वाः । संयमयोगैरात्मा, निरन्तरं व्यापृतः कार्यः ॥ १२० ॥
केनचिद्वणिजा मन्त्रबलेन पिशाचो वशीकृतः । पिशाचेनोक्तंममाज्ञादानमनवरतं च कार्य, परं यदैवाऽऽदेशं न लप्स्ये तदैवाहं भवन्तं विनाशयिष्यामीति । प्रतिपन्नं वणिजा । आज्ञा च दत्ता गृहकरणधनधान्यानयनकनकादिविभूतिसम्पादनविषया । सम्पादिता च पिशाचेन । पुनश्चाज्ञा मागिता । वणिजा चाभिहितो-दीर्घवंशमानीय गृहाङ्गणे निखाय आरोहणमवरोहणं च कुर्वीथाः तावद्यावदन्यस्याज्ञादानस्यावकाशो भवति इति । न चास्ति छिद्रं किंचिद्वणिजो यत्राभिभवः स्यादिति मन्यमानेन पिशाचेनोक्तं-छलितोऽहं त्वया, न तु मया त्वमिति । ततो मुत्कलय मां, कार्यकाले स्मरणीय इत्यभिधाय स्वस्थानमगमत्पिशाच इति । एवं साधोरप्यहोरात्राभ्यन्तरानुष्ठेयासु क्रियासु वर्तमानस्य नास्ति छिद्रं यत्र विषयेच्छायां प्रवृत्तिरिति । तथा द्वितीयं कुलवध्वाख्यानं कथ्यते-यथा काचित् कुलवधूर्देशनान्तरगतभर्तृका । तया सखी भणिता-कंचन युवानमानय । तयोक्तम्-एवं करोमि धृत्या स्थेयमित्यभिधाय परिणामसुखदं सर्वं शोभनमिति चिन्तयन्त्या श्वशुरस्य निवेदितं । ततस्तेन द्वितीयेऽह्नि निजभार्यया सह शब्दराटीकृता-यथा त्वं स्फेटयसि गृहं । तयोक्तं-न शक्नोम्यहं निर्वाहयितुं गृहमिदं, मुक्तोऽयं संप्रति मयाऽधिकारः । ततः श्वशुरेण सा वधूगृहव्यापारेषु नियुक्ता, सर्वं गृहव्यापारं करोति, तत आकुलमनाः कष्टेन स्वप्तुं लभते, ततः श्वशुरेण प्रयुक्ता तत्सखीभण मम वधुं यथा आनयामि युवानं । तथा च सा प्रोक्ता सती प्राहस्वप्तुमपि मे न कालोऽस्ति, किमनया दुष्टजनोचितया कथयेति ? | पैशाचिकमाख्यानं श्रुत्वा कुलवध्वा गोपायनं च श्रुत्वा अतः संयमयोगैरात्मा निरन्तरं व्यापृतः कार्य इत्युक्तम् ॥ १२० ॥
તથા આચારાંગમાં કહેલા અર્થોમાં વ્યગ્ર ( મશગુલ) બનનાર સાધુની મુક્તિના વિરોધવાળી દુષ્ટમતિ ક્યારેય થતી નથી તેમ કહે છે
ગાથાર્થ– પિશાચની વાર્તા અને કુલવધૂનું સંરક્ષણ સાંભળીને સાધુએ આત્માને સતત સંયમયોગોમાં ગૂંથાયેલો કરવો જોઈએ.
પ્રશમરતિ • ૯૪