________________
પંચસૂત્ર
પહેલું સૂત્ર
૧. પહેલું પાપપ્રતિઘાત-ગુણબીજાધાન સૂત્ર
૧. મંગલસૂત્ર इह चेदमादिसूत्रम्-पंयसूत्र अंयमा पडेगुं सूत्राणमो वीअरागाणं सव्वण्णूणं देविंदपूइआणं, जहट्ठिअवत्थुवाईणं तेलुक्कगुरूणं अरुहंताणं भगवंताणं ॥१॥ ____ नमो वीतरागेभ्यः' । तत्र रज्यतेऽनेनेति रागः, रागवेदनीयं कर्म । आत्मनः क्वचिदभिष्वङ्गपरिणामापादनात् । रञ्जनं वा रागः, रागवेदनीयकर्मापादितो भावोऽभिष्वङ्गपरिणाम एव । वीतोऽपेतो रागो येषां ते वीतरागाः, तेभ्यो नमः । एतच्च वीतद्वेषमोहोपलक्षणम् । वीतद्वेषेभ्यो वीतमोहेभ्यः । तत्र द्विष्यतेऽनेनेति द्वेषः, द्वेषवेदनीयं कर्म, आत्मनः क्वचिदप्रीतिपरिणामापादनात् । द्वेषणं द्वेषः, द्वेषवेदनीयकर्मापादितो भावोऽप्रीतिपरिणाम एव । एवं मुह्यतेऽनेनेति मोहः, मोहवेदनीयं कर्म । आत्मनः क्वचिदज्ञानपरिणामापादनात् । मोहनं वा मोहः, मोहवेदनीयकर्मापादितोऽज्ञानपरिणाम एव । एतदुपलक्षणं वीतरागग्रहणम् । तथा चाह-'सर्वज्ञेभ्यः' । न ह्यवीतरागा एव अवीतद्वेषादयः सर्वज्ञा भवन्ति, सर्वं जानन्तीति सर्वज्ञास्तेभ्यो नमः । आह-ये वीतरागास्ते सर्वज्ञा एवेति गतार्थं विशेषणं; न, छद्मस्थवीतरागाणामसर्वज्ञत्वात् । यद्येवं सर्वज्ञेभ्य इत्येतावदेवास्तु, अलं वीतरागग्रहणेन; न, अवीतरागाणामपि सकलशास्त्रविदामुपचारेण सर्वज्ञव्यवहारसिद्धस्तद्व्यवच्छेदार्थं वीतरागग्रहणमिति । एतद्विशेषणायैवाह'देवेन्द्रपूजितेभ्यः' । देवेन्द्राः शक्रादयस्तैः पूजिताः समभ्यर्चितास्तेभ्यो नमः । आह-ये वीतरागाः सर्वज्ञाश्च ते देवेन्द्रपूजिता एवेति नार्थोऽनेन विशेषणेन; न, मुण्डकेवलिप्रभृतीनां केषाञ्चित्तत्पूजितत्वानुपपत्तेः । यद्येवं देवेन्द्रपूजितेभ्य इत्येतदेवास्तु, अलं वीतरागादिग्रहणेन; न, अवीतरागादीनामपि गणधरादीनां देवेन्द्रपूजितत्वसिद्धेस्तद्व्यवच्छेदार्थं वीतरागादिग्रहणमिति । एतद्विशेषणायैवाह'यथास्थितवस्तुवादिभ्यः' । यथास्थितमभिलाप्यानभिलाप्यत्वादिना प्रकारेण स्थितं वस्तु वदितुं शीलाः, यथास्थितवस्तुवादिनस्तेभ्यो नमः । आह-ये वीतरागाः