________________
[७८]
स्यादिशब्दसमुच्चयः । अनात्वे प्रियाष्ट प्रियाटिनी, प्रियाष्टणी प्रियाष्टानि २। आ० हे प्रियाष्ट' हे प्रियाप्टन इत्यादि । नवन् दशन् ॥
एकेनाधिकादश, एकश्च दश च वा द्वन्द्वे "एकादशषोडश०" ॥३।२। ९१ ॥ इति एकादशन् । द्वाभ्यामधिका दश, द्वौ च दश च वा । त्रिमिरधिका दश इत्यादि " द्विज्यष्टानां द्वात्रयोऽष्टा:०" ॥३।२ । ९२ ॥ इति द्वादशन त्रयोदशन् । एवं चतुदशन्-पञ्चदशन् । “एकादश-षोडश०"॥ ॥३।२।९१ ॥ षोडशन् सप्तदशन् । “वित्र्यष्टानां छात्रयोऽष्टाः" ॥३।२।९२॥ अष्टादशन् ॥ नवन् आद्या आष्टादशान्ताः पञ्चन्नवत् ॥ एकेन न विशतिरिति “ नविशत्या दिनकोऽञ्चान्तः" ॥३॥१॥६९॥ "तृतीयस्थ पञ्चमे" ॥१॥३॥१॥ एकान्नविशतिः । एकादनविशतिः । अथवा एकेनोना विशतिः एकोनाविंशतिः हस्वत्वे एकोनविंशतिः । अथवा एकेनोना एकोना २ चासौ विंशति समासः ॥ विंशतिः । एकोनविंशति-आद्याः नवनवत्यन्ताः स्त्रीलिङ्गा। आविष्टलिङ्गा एकवचनान्ता एव । लिङ्गान्तरयुक्तेष्वपि बहुसङ्ख्येष्वपि विशेष्येषु भूमिशब्दवत् प्रयोगः । विंशतिः। पुरूषाः स्त्रियः कुलानि वा सन्ति । विशति पुरुषान् स्त्रीः कुलानि वा पश्य । विंशत्या पुरूषैः स्त्रीभिः कुर्वा कृतम् । “ स्त्रिया डितां वो० ॥१।४। २८ ॥ विंशत्यै, विंशतये पुरुषेभ्यः स्त्रीभ्यः कुलेभ्यो देहि । यदा तु विंशत्यादीनामेव गणनं तदा सर्व बचानानि । विशतिरेका । द्वे विंशती । तिस्रो विंशतय इत्यादि ॥ ऐकेनाधिका विशतिः, एकाविंशतिः । "दिव्यष्टा. नाम" ॥३२।९२॥ द्वाशतिः । त्रयोविंशतिः । एवमग्रेऽपि चतुर-पञ्च-षड्-सप्त-विंशतिः । अष्टाविंशतिः। एकान्न एकादून एकोन एकोनात्रिंशत् ४ । त्रिंशत् । एकात्रिंशत्