________________
[६६] स्यादिशब्दसमुच्चयः । त्वात् "आ देरः" ॥२॥१॥४१॥ इत्यादि न । अदः "औरी" ॥१॥४॥५६॥ "मादुवर्णः०" ॥११॥४७॥ अमू अमूनि २ । अकिअदकः अमुके अमुकानि २ ॥
इदम्-"अयमियं पुंस्त्रियोः सौ ॥ २॥११३८ ॥ अयम् "आ द्वेरः" ॥२२११४१॥ "दो मः स्यादौ” ॥२॥११३९॥ इमौ इमे । इमम्, अन्वादेशे द्वितीयाटौसि "इदमः" ॥२॥१॥३४॥ इति एनद "आ द्वेरः” ॥२१॥४१॥ एमम् । इभौ, एनौ । इमान्, एनान् । “टौस्वनः” ॥२॥१॥३७॥ अनेन एनेन । "अन” ॥२२॥३६॥ इति अत् आभ्याम् । “इदमदसोः०" "१४३॥ इति नियमात् एभिः । केषांचित् इभैः । अस्मै । अस्मात् । अस्य । “टौस्यनः” ॥२॥१॥३७॥ अनयोः, एनयोः। अस्मिन् एषु । अकि साकोऽपि "अयमियं पुस्त्रियोः सौ" ॥२॥१॥३८॥ अयम् । अपरे त्वादेशे कृते अकमिच्छन्ति तन्मते अयकम् इमको इमके । इमकम् , “इदमः” ॥२॥१॥३४॥ साकोऽपि एनद् एनम् । इमको, एनौ । इमकान , एनान् । साक्त्वात् "टौस्यनः" ॥२॥१॥३७॥ इति न । इमकेन, एनेन । "अद व्यञ्जने" ॥२१॥३५॥ साक एव आभ्याम् । इमकैः । ओसि इमकयोः, एनयोः । शेषं सर्वकवत् । स्त्रियाम्"अयमियम्" ॥२१॥३८॥ इयं इमे इमाः । इमाम् , एनाम् । इमे, एने । इमाः, एनाः । अनया आभ्याम् आमिः। "आ द्वेरः" ॥२१॥४१॥ "दो मः स्यादौ ॥२॥१॥३९॥ आप "आपो ङिताम्" ॥१।४।१७॥ "अनक" ॥२॥१॥३६॥ "सर्वादेर्डस्पूर्वाः" ॥१।४।१८॥ अस्यै । अस्याः २ । अत्र परत्वात् पूर्वमदादेशे पश्चात् डस् अनयोः, एनयोः । अस्याम् । आसु । अकि पूर्वरीत्या इयं इयकम् “अस्यायत्तत् ॥२।४।१११॥ इमिके, इमिकः । इमिकाम्. साकोऽप्येनद् एनाम् । इमिके, एने ।