SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ स्यादिशब्दसमुच्चयः । [६३] . अन्यस्वार्थिकप्रत्ययान्तानामग्रहणाद् इह न स्यात् सर्वतमाय सर्वतमात् अत्र 'प्रकृष्टे तमप्" ॥७३॥५॥ त्वः अन्यार्थः सर्ववत् ॥ त्वत् समुच्चयार्थः । त्वत् । स्वतौ स्वरे सन्धिः । त्वद्भ्याम् । त्वत्सु, थ्सु । आ० एवम् । स्त्रियामेवम् । क्लीबे-त्वत् त्यती त्वन्ति २। आं० एवम् ॥ नेम अर्धार्थः सर्ववत् । परं जसि "नेमा० ॥२४॥१०॥ इति नेमे, नेमाः ॥ सम-सिमौ सर्वार्थो सर्ववत् । सर्वार्थाभावे समाय देशाय सिमाय अश्वाय ॥ पूर्वादिषु नवसु पूर्वादीनां सप्तानां व्यवस्थायां सर्वादित्वम्। स्वामिधेयापेक्षाऽवधिनियमो व्यवस्था । एषां नवानामपि "नवभ्यः पूर्वेभ्यः" ॥१४॥१६॥ इति पूर्वे, पूर्वाः । पूर्वस्मात्, पूर्वात् । पूर्वस्मिन्, पूर्वे । शेषं सर्वलिङ्गेपु सर्ववत् । व्यवस्थाया अन्यत्र न स्यात् । दक्षिणाय गाथकाय देहि । प्रवीणायेत्यर्थः। दक्षिणायै द्विजाः स्पृहयन्ति । संज्ञायां च न । पूर्वो नाम कश्चित् । पूर्वाय उत्तराय कुरवे। स्वशब्दश्चतुर्थेिषु आत्मनि आत्मीये धने ज्ञातौ च ४ । आत्माऽऽत्मीयार्थयोरेवास्य सर्वादित्वम् । यत् त्वस्मै रोचते । यदात्मने ददाति यदात्मने रोचते तदात्मीयाय ददातीत्यर्थः । त्वशब्दः पूर्वशब्दवत् । शातिधनार्थोस्तु न । स्वाय दातुं स्वाय स्पृहयति । ज्ञातये दातुं धनाय स्पृहयतीत्यर्थः ॥ अन्तरं बहियोगे धर्मे बहिष्ठे धर्मिणि च वहिः शब्द: बहिर्भावे उपरि संवीयतेऽनेन कटिरिति करणसाधनः। उपसंवीयते यत् तत् उपसंवीयमानं बाह्येन वा योगे उपसंव्याने उपसंवीयमाने चाऽर्थेऽन्तरशब्दः सर्वादिः । न चेद् बहियोगेऽपि पुरि वर्तते । अन्तरस्मै गृहाय चण्डालादिएहायेत्यर्थः। चण्डालोदिगृहयुक्ताय वो नगराभ्यन्तरगृहायेत्यर्थः । अन्तरस्मै पटाय पटवतुष्यये तृतीयाय चतुर्थाय
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy