________________
[६२]
स्यादिशब्दसमुच्चयः ।
1
सर्वके सर्वकाणि २ । आ० हे सर्वक इत्यादि । सर्वेऽपि चामी संज्ञायां सर्वादयो न । सर्वो नाम कश्चित् । सर्वाय । सर्वात् । उत्तराय कुरवे स्पृहयति ॥ समस्तवाची विश्वोऽप्येवम् ॥
उभ द्विवचनान्त एव । उभौ २ । उभाभ्याम् ३ । उभयोः : २ । अकि उभौ इत्यादि । स्त्रियाम् - उमे २ । उभाभ्याम् ३ । उभयोः २ । अकि उभि २ इत्यादि । क्लबे - उभे २ । उभके २ । पुं० आ० हे उभौ । स्त्री० आ० हे उभे । क्लीचे - आ० हे उभे ॥ उभाववयवौ यस्य उभाभ्यामयट् टो ङ्यर्थः उभयः "ने मार्धप्रथम० " ||१|४|१०॥ उभये, उभयाः । शेषं सर्ववत् । स्त्रियाम् उभयी उभयकी नदीवत् । क्लीबे सर्ववत् । उभयः द्वयार्थः ॥ अन्याद्याः ३ पुंस्त्रियोः अकि च सर्ववत् । क्लीबे - "पञ्चतोऽन्यादेः ० " ||१|४|५८ || स्यमोदः अन्यत् अन्यकत् । अन्यतरत् अन्यतरकत् । इतरत् इतरकत् । शेषं सर्ववत् । आ० एवम् ॥ इतरग्रहणेनैव सिद्धे अन्यतरग्रहणं उतमप्रत्ययान्तस्यान्यशब्दस्य सर्वादित्वनिवृत्यर्थम् । अन्यतमाप । अन्यतमं वस्त्रम् । एके वाहु:- 'नायं उतरप्रत्ययान्तोऽन्यतरशब्दः किन्त्वव्युत्पन्नस्तरोत्तरपदस्तरवन्तो वा' तन्मते इतमान्तस्थापि अन्यशब्दस्य सर्वादित्वम् । अन्यतमस्मै । अन्यतमत् ॥ डतरडतमौ प्रत्ययौ । तयोः स्वार्थिकत्वात् प्रकृतिद्वारेणैव सिद्धे पृथगुपादानं अत्र प्रकरणे अन्यस्वार्थिकप्रत्ययान्तानामग्रहणार्थं अन्यादिलक्षणदार्थ च ॥ द्वयोर्मध्ये प्रकृष्टे " यत्तत्किमन्यात्” ||७|३|५३॥ उतर: "बहूनां प्रश्ने डतमश्च वा " || ७|३ | ५४ ॥ यतरः यतमः । ततरः ततमः । एकतर : एकतमः । अन्यतरः अन्यतमः । सर्वेऽपि अन्यत् । परं क्लीबे एकतरस्य एकतरवर्जनात् "पञ्चतोऽस्यादेः०" ||१|४|५८॥ इति न । एकतरमित्यादि ।