________________
स्यादिशब्दसमुच्चयः ।
[५१] दृष्टदिक्, ग् दृष्टदिशी दृष्टदिशि २ । एवं दलं स्पृशति दलस्पृश्- "ऋत्विज्० " ||२|१|६९॥ दलस्पृक्, ग् । दलस्पृशौ स्वरे सन्धिः । दलस्पृग्भ्याम् । दलस्पृक्षु, खुषु । आ० एवम् | स्त्रियामेवम् । क्लींबे -दलस्पृक्, ग् दलस्पृशी दलस्पृशि २ | आ० एबम् । एवं सदृश्- तादृश् - युष्मादृश्भवादृश् - मुख्याः ॥ १८ ॥
पन्ता द्विषादयः पुंसि प्रावृष्-प्रभृतयः स्त्रियाम् । वाच्यलिङ्गाः सुवर्णमुष्- मुख्याः सजुष् दधृष् तथा ॥ १९ ॥
"धुटस्तृतीयः " ॥२|१|७६ ॥ द्विट् ड् । द्विषौ स्वरे सन्धिः । द्विड्भ्याम् । द्विट्सु द्विड्सु । आ० एवम् ॥ । “घुटस्तृतीयः " ॥ २|१|७६॥ प्रावृद्, ड् । प्रावृषौ स्वरे सन्धिः । प्रावृड्भ्याम् द्विष्वत् । एवं त्विष्- रुष्- विप्रुष्तृष्-मुष्- मुख्याः ॥ 'शासूक्' आशासनमाशी: "क्रुत्संपदा - दिभ्यः०" ।।५|३|११४॥ क्विप् “आङ :ः" ॥ ४ । ४ । १२० ॥ -नाम्यन्तस्था०" || २|३|१५|| षत्वे आशिष् सिलोपः षत्वस्यासत्त्वात् " सो रुः " || २|१|७२ || ' पदान्ते" ||२||६४ || "र पदान्ते० " ||१|३|५३|| आशीः । आशिषः स्वरे सन्धिः । पत्वस्यासत्त्वात् "सो रुः" || २|१|७२ ॥ षस्य रत्वे "शषसे० " ||१|३|६|| आशीष्षु, “रः पदान्ते० " ॥ १।३।५३ || आशीषु । कातन्त्रे आशीषु । आ० एवम् ॥ सुवर्णमुष्ट्. ड् । सुवर्ण. -मुषौ स्वरे सन्धिः । सुवर्णमुड्भ्याम् । सुवर्णमुट्सु, ठूसु । आ० एबम् ॥ स्त्रियामेवम् । क्लीबे - सुवर्णमुट्, ड् सुवर्णमुषी सुवर्णमुषि । आ० एवम् ॥ सिलोषे 'सझुषः ॥२|१|७३॥ ष्
" पदान्ते" || २|१|६४ ॥ सजूः । सजुषौ स्वरे सन्धिः । सजूर्माम् सजूभिः । सजूष्षु, सजूः षु । कातन्त्रे - सर्जूर्षु ।