SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ स्यादिशब्दसमुच्चयः । [२३] स्मरप्रिया वा पुंस्त्रियोः सदृशा प्रक्रिया | सेः । स्वरे अय् सयौ० । “एदोद्भ्यां ङसिङसो रः " ॥ १| ४ | ३५ ॥ सेः । मतान्तरेण वा सय: । आ० “अदेतः स्यमोलुक्” ||१|४|४४|| हे से । एवं परमे ||२५|| ऐकारान्तो रैः पुंनायरोकारान्तस्तथैव गोः । औकारान्तो पुंलिङ्गो नौः स्त्रीलिङ्गे समक्रियौ ॥ २६ ॥ "आ रायो व्यञ्जने” || २|१|५|| राः । स्वरे आय् रायौ आ० हे राः । बहुरैः पुसि स्त्रियां च मुख्यरैवत् । क्लीबे स्वे बहुरि बहुरिणी बहुरीणि २ । टादौ स्बरे वा पुंस्त्व बहुराया, बहुरिणा । हस्वे एकदेशविकृतस्य अनन्यत्वात् आत्वे बहुराभ्याम् | आ० हे बहुरि ॥ "मोत औ: " || १ |४| ७४ ॥ घुटि गौः गावौ गावः । “आ अमशसोऽता” ||१|४|७५॥ गाम् गाः । “एदोद्भ्यां ङसिङसो रः " || १ | ४ | ३५ ॥ गौः २ | आ० हे गोः । स्त्रियामप्येवम् । चित्रा गावोऽस्य “गोश्चान्ते०” ॥२|४ |९६ ॥ पुंसि शम्भुवत् । स्त्रियां धेनुवत् । क्लीबे हस्वे जतुवत् । टादौ स्वरे वा पुंस्त्वम् । एवं द्यो नाकवाची स्त्री गोवत् पर ं त्वस्य ङसिङसोर्मतान्तरेण वा र द्योः द्यवः २ ॥ ग्लौः । स्वरे आव् ग्लावौ । आ० हे ग्लौः । एव नौः नावौ । सुनौः पुंस्त्रियोः समः । सुनौः सुनावौ । क्लीबे हस्वे सुनु सुनुनी सुनूनि । टादौ स्वरे वा पुंस्त्व ं सुनुना, सुनावा ॥ २६ ॥ इति श्रीवायटगच्छीयश्रीजिनदत्तसूरिशिष्यपण्डित - श्रीमदमरचन्द्रानुस्मृते स्यादिशब्दसमुच्चये स्वरान्तशन्दोल्लासः प्रथमः प्रकमः । १ ।
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy