SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ स्यादिशब्दसमुच्चयः। [२१] संयोगपरत्वात् लूशब्दे वृत्त्यभावात् प्राप्तलू-महाप्रूशब्दयोः क्विवृत्त्यभावात् यथाप्राप्तं स्वरे उव् कटप्र: कटपुवौ० आ० हे कटप्रः । स्त्रियामप्येवम् । परं नित्यस्त्रीत्वाभावात् "स्त्रोदूतः" ॥१४॥२९॥ इति दै-आद्या न । क्लीवे हस्वे मधुवत् । टादौ स्वरे वा पुंस्तवम् । एवमक्षय-आद्याः संयुक्त धातूदन्ताः ॥२०॥ ऋकारान्ताः पितृ-भ्रातृ-मुखाः पुंसि समक्रियाः । नृशब्दस्यान्तरं प्रोक्तं षष्ठ्यन्तवचने सति ॥२१॥ पितृ "ऋदुशनसू०” ॥१।४८४॥ पिता । “अौं च" ॥१४॥३९॥ पितरौ० ॥ "शसोऽता सश्च नः पुंसि" ॥१॥४॥४९॥ पितृन् । स्वरे रत्वे पित्रा । "ऋतो डुर" ॥१।४।३७॥ पितुः २। “हस्वापश्च" ॥१।४।३२॥ पितृणाम् । “अझै च" १।४।३९॥ पितरि । आo "हस्वस्य गुण:” · ॥१॥४॥४१॥ हे पितः ॥ "नुर्वा" ॥१॥४॥४॥ इत्यामि नृणां, नृणाम् ॥२१॥ स्त्रियां मातृ-मुखाः प्रोक्ता ऋकारान्ताः समक्रियाः। स्वस्रादीनां पितृष्वस-मातृष्वस्रस्तथाऽन्तरम् ॥२२॥ मातृ-दुहित-मुख्याः पितृवत् । परं शसि मातृ: । स्वसा "तृत्वमृ०" ।।१।४।३८।। इति घुटि आर् स्वसारौ ४। स्रीत्वात् शेषं मातृवत् । स्वस स्त्री । शेषाः ७ पुंसि तेषां शसि नप्तृन् इत्यादि । चारुस्वसृशब्दोऽपि पुस्त्रियोः स्वसृवत् । क्वीबे यारिवत् । टादौ स्वरे वा पुंस्त्वं च । एवं शेषाः ७॥२२॥
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy