SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ [२०] स्यादिशब्दसमुच्चयः । स्त्रियामूदन्ता वध्वाद्याः समा भ्र-भूश्च भेदभाक् । समा वाच्यलिङ्गा अतिचमू-प्राप्तवधू-मुखाः ॥१९॥ वधूनदीवत् परं सेर्लोपो न यधूः । एवं ऊङन्ता रम्भोरूलक्ष्मणोरूमुख्याः । तथा कच्छू जम्बूप्राया वधूवत् । जम्बू स्त्रीक्लीलिङ्गः । ऊदन्तोऽयं षण्ढे "क्लीबे" ॥२४॥९७॥ इति हस्वे उदन्तताः । इयं जम्बूरिदं जम्बू जम्बूवृक्षफलं तथा । जम्बू वृक्षवाचकोऽपि स्त्रीलिङ्गः तथा च नैषधेएतत्तरुः०” (११।८६)। भ्रः स्वरे "भ्रश्नोः" ॥२१॥५३॥ इति उव् ध्रुवौ० । “वेयुवो." ॥१॥४॥३०॥ इति वा दै-आद्याः भ्रुबै, भ्रवे आ० हे भ्रूः । कथं हे सभ्रु अत्र भ्रुरुकारान्तः। ऊङन्तस्य वा हस्वे । भ्रवत् भूः परं "धातोःo" ॥२॥१॥५०॥ इति उव । “वेयुवो०" ॥१।४।३०॥ इति वा दैआद्याः। आमि भूनां, भुवाम् । ङौ भुवा, भुवि । अतिचमू-प्राप्तवधू-अत्यलाबू-मुख्याः । पुंस्त्रियोर्मुण्यवधूवत् । क्लीबे ह्रस्वे जतुवत् । टादौ स्वरे "वाऽन्यतः०" ॥१।४।६२॥ इति पुंस्वम् विद्यानन्दे तु देवयजी बहुचमू आद्या वातप्रमीवदुक्ताः । देवयजीन् बहुचमून् इत्यादि ॥१९॥ धातूदन्ता वाच्यलिङ्गाः सकुल्लू-प्रमुखाः समाः । भिन्नाः कटप्रू-लू-प्राप्तालू-महाप्रू मुखाः समाः ॥२०॥ सकुल्लू: । उन्नीसल्लूसदृशेषु क्रीवत् धातुसंबन्धो न. संयोगस्ततो स्वरे “क्विवृत्ते०” ॥२।११५८॥ इति वत्वे सकृल्वौ । एवं स्त्रियामपि । नित्यस्त्रीत्वाभावात् दै-आद्या न सकृल्वे ब्राह्मण्यै । ल्लीवे ह्रस्वः ततो मधुवत् । टादौ स्वरे वा पुंस्त्वम् । एवं यवलूः सर्वसूः । कटपूशब्दस्य
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy