________________
स्यादिशब्दसमुच्चयः ।
[१५]
हे सुसखि हे सुपितृकुलम् ॥११॥
वाच्यलिङ्गाः शुचिप्रायाः सुबुद्धयाद्याः सहक्रियाः । सुरभिर्भूरि-सुमति दीर्घाङ्गुलि - मुखा अपि ॥ १२ ॥ ईकारान्तास्तु पुंलिङ्गास्तुल्या वातप्रमी - मुखाः ।
सुरभिर्भूरि-सुमति दीर्घाङ्गुलि सुवारिमुख्या वाच्यलिङ्गाः पुंसि अग्निवत् । स्त्रियां शसि सस्य नत्वं टाया ना इति न - शेषमग्निवत् । शुचिशब्दः स्वत एव त्रिलिङ्गोऽस्ति ततो यदा तस्य स्त्रिया प्रयोगः तदा बुद्धिवत् । क्लीबे वारिवत् । वाच्यलिङ्गव्यवस्थायां तु टादौ स्वरे " वाऽन्यतः ०" | १|४|६२॥ इति वा पुंस्त्वम् । टाया रूपे समे । आमि तु एका प्रक्रिया । वाच्यलिङ्गाऽऽमन्त्रणे हे शुचि । एवं सुरभ्याद्याः क्लीबे । सुबु
याद्या अप्येवं वाच्यलिङ्गाः । वाताभिमुखगामुको मृगः वाता अमीः सर्वत्र स्वरे सन्धिः । अमि वातप्रमीम् । शसि वाताअमीन् । आमि वातप्रम्याम् । डौ वातप्रमीम् । आ० हे वातप्रमीः ॥ अमि-शसि - ङौ च विशेषः क्विवृते० || २|१|५८|| इत्यनेन वातप्रम्यम्, वातप्रस्यः, वातप्रस्यि ||१२||
ईकारान्ताः स्त्रियां ज्ञेया नदी -मही- मुखाः । लक्ष्मी -श्री-ही-धीमुख्यानां शब्दस्य तथाऽन्तरत् | १३||
“दीर्घङयाब् – " || १ |४| ४५ || नदी नद्यौ नद्यः । नदीम् नदीः । नद्या नदीभिः " स्त्रीदूतः " || १ |४| २९ | | नये नद्याः २ नाम् । नद्यात् नदीषु । आ० " नित्यदित्-" ||१|४|४३|| इति है नदि । एवं मही-नखी-प्लवी कुमारी- मुख्याः । लक्ष्मीः