SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ [१०] स्यादिशब्दसमुच्चयः । स्वरादौ वा जरस् आदेशः ॥ विकल्पपक्षे व्यञ्जनादौ च श्रद्धावत् ॥ जरा जरसौ, जरे । जरसः, जराः इत्यादि ॥.........जरामतिक्रान्त इत्यन्यपदार्थ "गोश्चान्ते० " ||२| ४|९६ ॥ इत्यादिसूत्रेण ह्रस्वः । ह्रस्वत्वे कृते 'एक-देशविकृतमनन्यवत्' इति न्यायात् जरसादेशः । पुल्लिङ्गे - अतिजर : अतिजरसौ, अतिजरौ । अतिजरस:, अतिजरा: । अतिजरसा अत्र परत्वात् नित्यत्वाच्च प्रागेव जरसादेशे कृतेऽदन्तत्वाभावः । अन्ये तु प्रागेवेनादेशं 'सन्निपातलक्षण - ' न्यायस्य अनित्यत्वा - ऽऽश्रयणात् पश्चात् जरसादेशं चेच्छन्तोऽतिजरसिना इत्यपि मन्यन्ते । पक्षे अतिजरेण अतिजराभ्याम् पसादेशेनैव सिद्धे ऐस्करणं 'सत्रिपातलक्षण' न्यायस्य अनित्यत्वज्ञापनार्थ तेन अतिजरसैः । अन्ये तु अतिजरैरित्येवेच्छन्ति । ऐस्करणादतिजरसैरेतत् ज्ञापकम् ' ज्ञापकज्ञापिता विधयो नित्या:' इति 'एकदेशविकृत मनन्यवत्' इति न्यायेन ऐस्करणे जराशब्द आकारातो न ज्ञेयः । तेनैव अतिजरैः । अतिजरसः, अतिजरात् । केचित् तु प्रागेवादादेशे जरसादेशमिच्छन्तोऽतिजरसादित्यपि, डसिस्थानेऽदिति सिद्धे यद् दीर्धीच्चारणं तेन अतिजरसादिति वा मन्यते । क्लीवे सौ "अतः स्यमोऽम् " || १ | ४|५७ ॥ अमोकारोच्चारणं जरसादेशार्थम् | "जरसो वा' || १ |४| ६० || इति वा लुपि अतिजरः, अतिजरसम्, अतिजरम् । अतिजरसी, अतिजरे । अतिजरांसि, अतिजराणि । द्वितीयायामध्येवं । शेष पुवत् । स्त्रियां तु मुख्यजराशब्दवत् ॥ " मासनिशा०” || २|१|१००|| इत्यादिना शसादौ वा अन्तलुक् । निशः, निशाः । निशा, निशया । "धुटस्तृतीयः " || २|१|७६ || इति शस्य जत्वे निज्भ्याम्, निशाभ्याम् । सुपि "सस्य शषौ” || १ | ३ | ६१ ॥ इति सुप्सस्य शः "धुटस्तृतीयः " ||२||७६ ॥ श ज "अघोषे प्रथ 1 > -
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy