________________
स्यादिशब्दसमुच्चयः । शसि हृदयानि, पक्षे "घुटां प्राक् ॥१४॥६६॥ हृदा हृद्भ्या'मित्यादि । “अघोषे प्रथमोऽशिटः ॥१।३।५०॥ हृत्सु, हृथ्सु ॥ कुण्डवत् ५ रुपाणि । उदकानि, "नि दीर्घ:” ॥१।४।८५॥ उदानि । उदकेन, “अनोऽस्य" ॥२११।१०८॥ उदना । उदकाभ्याम् , डौ उदके, “ई ङौ वा" ॥२।१।१०९॥ उनि उदनि ।। "मासनिशा०"।।२।१।२००॥ इत्यादिना शसादौ आसनस्य अन्तलोपे आसन् । आसनानि, “नि दीर्घः” ॥१॥४८॥ आसोनि । आसनेन, "अनाऽस्य” ॥२।१।१०८॥ आस्ना । आसनाभ्याम् , "स्वरस्य परे प्राग्विधौ ॥७।४।११०॥ इत्यकारस्य स्थानित्वात् नलोपाभावे आसन्भ्याम ॥ टौ आसने, आसनि, आस्नि ॥६॥ शुक्ल-कृष्णारुणाद्यास्तु वाच्यलिङ्गाः प्रकीर्तिताः । आकारान्ताश्च पुलिङ्गा हाहा-प्रभृतयः समाः ॥ ७ ॥
शुक्लाद्याः पुसि देववत् । स्त्रियामापप्रत्यये शालावत् । क्लीबे कुण्डवत् । हाहाऽऽदोनो स्वरे सन्धिः । अधुटस्वरे तृ "लुगातोऽनापः ॥२।१।१०७|| इत्यन्तलोपः । हाहा: हाहौ हाहाः । हाहां. हाहः । हाहा हाहाभ्याम् । आ० हे हाहाः ॥७॥ आकारान्ताः स्त्रियां श्रद्धा-शाला मालाऽऽदयः समाः। जरा-निशा-नासिकाऽम्बार्थानां स्यादन्तरं पुनः ॥ ८ ॥
श्रद्धा सि “दीर्घड्याध्यञ्जनात् सेः" ॥१।४।४॥ श्रद्धा । "औता' ॥१।४।१९।। श्रद्धे श्रद्धाः , श्रद्धाम् , । श्रद्धाः । "टौस्येत" ॥११४४१९॥ श्रद्धया श्रद्धाभ्याम् । “आपो डितां यैयास्यास्याम्" ।।१।४।१७।। हे श्रद्धे हे श्रद्ध हे श्रद्धाः। जरादीनां विशेषो यथा-जरा "जराया जरस वा" ॥२॥१३॥