________________
श्रीवासुपूज्यस्वामिने नमः ॥
॥ श्रोनेमि-वण्यसूरीश्वरेभ्यो नमः ॥ श्री अमरचंद्रसूरिविरचित-स्यादिशब्ददीपिकया सहिता श्रीस्यादिशब्दसमुच्चयः ।
-- -- - - श्रीसारदां हृदि ध्यात्वा, स्यादिशब्दसमुच्चयम् । करोत्यमरचंद्राऽऽख्यो यतिः श्वेताम्बराग्रणीः ॥ १ ॥ शब्दाः पुंलिङ्गाः स्त्रीलिङ्गाः स्युनपुंसकलिङ्गकाः । स्त्रीपुंलिङ्गकाः पुंक्लीबलिङ्गाः स्वीक्लीबलिङ्गकाः ॥ २ ॥ त्रिलिङ्गका अलिङ्गाश्च वाच्यलिङ्गा अपि क्रमात् । नवप्रकारः शब्दानां लिङ्गभेदो भवत्ययम् ॥ ३ ॥ स्वरान्ता व्यञ्जनान्ताश्च, सर्वनामगणोदिताः । सङ्ख्यासमाश्रिताः शब्दा ज्ञेयाः प्रज्ञावता क्रमात् ॥ ४ ॥ अकारान्ताः स्मृताः पुंसि, देव-मुख्याः समक्रियाः। मास-दन्त-पाद-यूषाः, शसादौ भेदभाजिनः ॥ ५॥ विशेषः सखि-पत्योस्तु पन्थि -मन्थि-ऋभुक्षिषु ।
देवप्रक्रिया सुगमा परं देवाः-इत्यत्र जसि अपवादत्वात् समा नदीर्घबाधकरय 'लुगरयादेत्यपदे" ॥२।१।११३॥ इत्यस्य
१. दन्त्यसकारादिः सरस्वतीवाचकोऽस्ति इति शब्दरत्नावी ।