SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ स्यादिशब्दसमुच्चयः । सुमनोऽप्सरो-भास्-मुख्याः क्लीबे सन्ता महो-मुखाः । इसन्ता सप्पि:-प्रमुखा उसन्ताश्च वपुर्निभाः ॥२१॥ वाच्यलिङ्गा बहुविधास्तस्थिवस्-प्रमुखा मताः । हन्ताः पुंलिङ्गास्तुरासाह-पृष्ठवाह-सदृशा मताः ॥२२॥ स्त्रियामुपान-सदृशा वाच्यलिङ्गा मुहादयः । क्षन्ता वाच्यलिङ्गाः काष्ठतरू-गोरक्ष-प्रमुखा मताः ॥२३॥ इति स्यादिशब्दसमुच्चये व्यञ्जनान्तशब्दोल्लासो द्वितीयः ॥२॥ सर्वनामगणेऽन्यादिर्डतमप्रत्ययावधिः । पूर्वादिरन्तरान्तस्तु त्यदादिय॑वधिः पुनः ॥१॥ युष्मदस्मद्-भवन्तश्च स्वस्वोक्तप्रक्रियास्पृशः। पूर्वादियुक्तस्त्वन्यादिर्गणः किंचित् पृथकक्रियः ॥२॥ इति स्यादिशब्दसमुच्चये सर्वनामगणोल्लासस्तृतीयः ॥३॥ एकाद्याः सङ्ख्याशब्दाः स्युः स्वस्त्रोक्तप्रक्रियास्पृशः। पुंस्त्रीलिङ्गाः फणरथोर्मीषुध्यरु-मुखा मताः ॥१॥ पुंनपुंसकलिङ्गास्तु व्यलोक-पुस्तकाऽऽदयः । स्त्रीक्लीबलिङ्गा नासीर-मृगव्य-नगराऽऽदयः ॥ २ ॥ स्वतस्त्रिलिङ्गाः कंदल-मृणाल-शकटाऽऽदयः । अलिङ्गका युष्मदस्मद्-ष्णान्ता सङ्ख्या डतिस्तथा ॥ ३ ॥ इति श्रीमद्वायटगच्छी यश्रीजिनदत्तसूरिशिष्यपण्डित श्रीमदमरचन्द्रानुस्मृते स्यादिशब्दसमुच्चये सङ्ख्याशब्दोल्लासश्चतुर्थः ॥ ४ ॥ . सम्पूर्णोऽयं ग्रन्थः
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy