SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ स्यादिशब्दसमुच्चयः। [५] वाच्यलिङ्गास्तत्वविदाद्या व्यानपाद्-मुखा अपि । धन्ताः स्त्रियां समिध्-मुख्या वाच्यलिङ्गास्तु संमताः ॥११॥ मृगाविध्-मर्माविध्-विक्रुध्-प्रमुखा ज्ञानबुध तथा। नन्ताः पुंस्यात्मनो मुख्या राजन् -मुख्याश्च सान्तराः॥१२॥ भेदः श्व-युव-मघोनामिन्-हन्-पूषार्यमाद्यताम् । विशेष प्रतिदीनोऽस्ति स्त्रियां सीमन्-मुखाः समाः ।१३। क्लीबे सामन्-मुखास्तुल्याः पर्वजन्मादयः पृथक् । अहनो भेदो वाच्यलिङ्गाः बहुराजन्-मुखा मताः ॥१४॥ पन्तोऽप् स्त्रियां वाच्यलिङ्गाः शुच्यप-मण्डपलिप-मुखाः । 'फन्ता बन्ता वाच्यलिङ्गा अरितुफ-पुत्रचुम्ब्-मुखाः ॥१५॥ भन्ताः स्त्रियां ककुभ-मुख्या वाच्यलिङ्गा विदर्भ-मुखाः । मन्ता यन्ता वाच्यलिङ्गाः प्राप्तशमव्ययादयः ॥१६॥ रन्ताः स्त्रियां गिर-धुर-मुग्या बाच्यलिङ्गाः मुगिर-मुखाः। तथा लन्ता विमल तुल्या वन्ता दिव-प्रमुखाः स्त्रियाम् ॥१७॥ चाच्यलिङ्गाः मुदिव-प्रायाः शन्ता विश् पुंसि तु स्त्रियाम् । दिश्-समा वाच्यलिङ्गा नश्-जोवन-दृष्टदिश-समाः ॥१८॥ 'पन्ता द्विषादयः पुंसि प्रावृष्-प्रभृतयः स्त्रियाम् । वाच्यलिङ्गाः सुवर्णमुष् मुख्याः सजुष्-दधृष् तथा ॥१९॥ सन्ता वेधो मुखाः पुंसि दोस्-पुंसोन्तरं मतम् । उशन:-पुरुदंशोऽनेहसां भेदः स्त्रियां पुनः ॥२०॥
SR No.023398
Book TitleSyadi Shabda Samuchhay
Original Sutra AuthorN/A
AuthorVijaymahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year1990
Total Pages254
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy