________________
[२]
स्यादिशब्दसमुच्चयः।
आकारान्ताः स्त्रियां श्रद्धा-शाला-मालाऽऽदयः समाः । जरा-निशा-नासिकाऽम्बार्थानां स्यादन्तरं पुनः ॥ ८ ॥ आकारारान्ता वाच्यलिङ्गाः सोमपा-प्रमुखाः समाः । पुंसि तुल्या इकारान्ता अग्नि-विध्यादयो मताः ॥ ९ ॥ विशेषः सखि-पत्योस्तु पन्थि-मन्थि-ऋभुक्षिषु । इकारान्ताः स्त्रियां बुद्धि-मुख्या धूलि-मुखाः समाः॥१०॥ वारि-प्रभृतयस्तुल्या इकारान्ता नपुंसके । अस्थि-दधि-सक्थ्यक्ष्णां तु विज्ञेयं पुनरन्तरम् ॥ ११ ॥ वाच्यलिङ्गाः शुचिप्रायाः सुबुद्धयाद्याः सदृक्रियाः। सुरभिर्भूरि-सुमति-दीर्घाङ्गुलि-मुखा अपि ॥१२।। ईकोरान्तास्तु पुंलिङ्गास्तुल्या वातप्रमी-मुखाः । इकारन्ताः स्त्रियां ज्ञेया नदी-मही मुखाः समाः। लक्ष्मी-श्री-ही-धी-मुख्यानां स्त्रीशब्दस्य तथाऽन्तरम् ॥ ईकारान्ता वाच्यलिङ्गा अतिलक्ष्मी-मुखाः समाः। पृथुश्री-प्रमुखा भिन्नाः सेनान्युनी-मुखाः पृथक् ॥१४॥ भिन्ना यवक्री-नी-प्राप्तभी-महानी-मुखास्तथा । शम्भवाद्याः पुंस्युकारान्ताः समाः क्रोष्टु-विवजिताः ॥१५॥ धेनु-मुख्या उकारान्ताः स्त्रीलिङ्गाः सदृशक्रियाः । जतु-प्राया उकारान्ताः समानाः स्युनपुंसके ॥१६॥