________________
स्यादिशब्दसमुच्चयः ।
उकारान्त । वाच्यलिङ्गाः पटु-लघ्वादयः समाः । करन्ताः पुंसि हूहू नग्नहू -प्रमुखाः समाः ॥१७॥ स्वयम्भू-प्रतिभू-प्रायाः सदृशाः खलपूः पृथक् । ऐभ्यो वर्षाभू - पुनर्भू - शब्दयोरन्तरं मतम् ॥ १८ ॥ स्त्रियामृदन्ता वध्वाद्याः समा भूर्भूव भेदभाक् । समा वाच्यलिङ्गा अतिचमू प्राप्तवधू - मुखाः ॥ १९ ॥ धातूदन्ता वाच्यलिङ्गाः सकृल्लू - प्रमुखाः समाः । भिन्नाः कटप्रु-लू-प्राप्तालू - महाप्रू मुखाः समाः ॥२०॥ ऋकारान्ताः पितृ भ्रातृ - मुखाः पुंसि समक्रियाः । नृशब्दस्यान्तरं प्रोक्तं षष्ठ्यन्तवचने सति ॥ २१ ॥ स्त्रियां मातृ-मुखाः प्रोक्ता ऋकारान्ताः समक्रियाः । स्वस्रादीनां पितृष्वसृ-मातृष्वस्रस्तथाऽन्तरम् ||२२|| वाच्यलिङ्गा ऋकारान्ताः कर्तृ-प्रभृतयः समाः । ऋकारान्ताः पितॄ - मुख्याः पुंसि तुल्यक्रियाः स्मृताः ॥२३॥ स्त्रियां पितृ-मुखास्तुल्याः क्लीवे सुपितृवत् पुनः । लृकारान्ता वाच्यलिङ्गाः प्रियक्ल - प्रमुखाः समाः ॥ २४ ॥ लृकारान्ता वाच्यलिङ्गाः प्रियकल - प्रमुखास्तथा । एकारान्ताः से - परमे - मुख्यास्तुल्यक्रिया मताः ॥ २५ ॥ ऐकारान्तो रैः पुंनायरोकारान्तस्तथैव गोः ।
कारान्तो
पुंलिङ्गे नौः स्त्रीलिङ्गे समक्रियौ ॥ २६ ॥ इति स्यादिशब्दसमुच्ये स्वरान्तशब्दोल्लासः प्रथमः ।
[३]