________________
हैमनूतनलघुप्रक्रिया स्वसम्बन्धिनि सौ परे सकारादेशो भवति । स्यः । त्यौ, त्ये । त्यम् , त्यान् । त्येन, त्याभ्याम् , त्यैः । त्यस्मै, त्येभ्यः । त्यस्मात् , त्यस्माद् , त्ययोः, त्येषाम् , त्यस्मिन् , त्येषु । त्यदादेः सम्बोधनं नास्तीत्युत्सर्गः । सः, शेषं त्यद्वद् । यः, एषः । शेषं त्यद्वत् ॥
त्यदामेनदेतदो द्वितीयाटौस्यवृत्त्यन्ते ।२।१।३३॥ त्यदादीनां सम्बन्धिन एतदित्यस्य द्वितीयायां टायामोसि च परे अन्वादेशे एनदित्यादेशो भवति, न तु वृत्यन्ते । कथितस्यानुकथनमन्वादेशः। कस्यचिद् वस्तुनः किश्चित् क्रियादिकं विधातुं कथितस्य तेनान्येन वा शब्देन पुनरन्यत् क्रियादिकं विधातुं कथनमित्यर्थः। आगत एषः, अथो ऐनं भोजय । एनौ, एनान् , एनेन, एनयोः॥
ईदमः।२।१३४॥ त्यदादीनां सम्बन्धिन इदमित्यस्य द्वितीयायां टायामोसि च परेऽन्वादेशे एनदित्यादेशो भवति, न तु वृत्त्यन्ते ॥
गडदबादेश्चतुर्थान्तस्यैकस्वरस्यादेश्चतुर्थः स्ध्वोश्च प्रत्यये ।२।१।७७।। गडदबादेश्चतुर्थान्तस्यैकस्वरस्य धातोरव
१-अद्वेर इत्यत्वम् । २-क्वचिद् हे सः ! हे असौ ! इत्याद्यपवादः । ३-अत्वलुकोः कृतयोः सत्वे नाम्यन्तस्थेति षः । ४-अत्वलुको । ५-प्रसङ्गादत्रेदं सूत्रमुपात्तम् । उपयोगस्तु मकारान्तेषु इदम् शब्दे ।