________________
हैमनूतनलघुपक्रिया . ५५५ सप्तम्याः कृदन्ते उत्तरपदे परे तत्पुरुषे लुप् न भवति, बहुलम् । स्तम्बे रमते स्तम्बेरमः। पात्रेसमितः । बाहुलकात् क्वचिदन्यतोऽपि-गोर्युचरः। काचिनिषेधो न-मद्रचरः । क्वचिद्विकल्पः, खेचरः खचरः। वनेचरः वनचरः पड्केरुहम् , पङ्करूहम् ।
मध्यान्ताद् गुरौ ।३२।२१॥ मध्यान्तशब्दाभ्यां परस्याः सप्तम्या गुरुशब्दे उत्तरपदे परे लुप् न भवति । मध्येगुरुः, अन्तेगुरुः। मतान्तरेण मध्यगुरुरन्तगुरूरित्यपि ॥
वर्षक्षरवराप्सर शरोरोमनसो जे ।३।२।२६॥ वर्ष, क्षर, वर, अप् , सरस् , शर, उरस् , मनसू इत्येतेभ्यः परस्याः सप्तम्या जे उत्तरपदे परे वा लुप् भवति । अप्सु जातवदप्सुजेम् । अन्नम् । सरसि जातवत्सरसिज, सरोजेम् । उरसिजम् उरोजम् । मनसिजम् मनोजम् ।
षष्ठयाः क्षेपे ।३।२॥३०॥ क्षेपे गम्ये उत्तरपदे
४-विषयसप्तमी, शोकापनुदेत्यादिना कप्रत्ययान्तो निपातः, ङस्युक्तसमासः ।
५-पात्रे समितादयः इति समासः । ६-७-८ चरेष्ट इति टः, ङस्युक्तसमासः । ९-औपश्लेषिकसप्तमी, नाम्युगन्त्येति कः, उस्युक्त समासः । १०-औपश्लेषिक सप्तमी । शौण्डादित्वात्समासः । ११-सप्तम्या इति डेऽन्त्यस्वरादिलोपे उस्युक्तसमासः, लुपि तु धुटस्तृतीयः । १२नामेति पदत्वे, सोरुः, घोषवतीत्युः, अवर्णस्येत्योकारः।