________________
५५०
है मनूतनलघुप्रक्रिया वाक्वच इत्येवमादयः ॥
॥ इति बन्छ समासप्रक्रिया ॥
॥ अथ एकशेषप्रक्रिया ॥ समानामर्थेनैकः शेषः।३।१।११८॥ समानार्थानां शब्दानां सहोक्तौ गम्यायाम् एकः शिष्यते । अर्थादन्ये निवर्तन्ते । समानार्थी शब्दाः-सरूपा विरूपाश्च । तत्र यथेष्टमेकः शिष्यते । बहुवचनमतन्त्रम् । तेन द्वयोरप्येकः शिष्यते इति बोध्यम् । “यः शिष्यते स लुप्यमानार्थाभिधायीति" न्यायाद् द्विवचनादिकं बोध्यम् । वक्रश्च कुटिलश्च वक्रौ, कुटिलौ वा स्तः । साधुश्च मुनिश्च व्रतो च साधवो मुनयो वतिनो वा वन्दनीयाः, सहोक्त्यभावे तु-साधुश्च मुनिश्च व्रती चाऽऽ. गच्छति नमति गच्छति इत्येव, नैकशेषः।। ___ स्यादावसंख्येयः ।३।१।११९॥ सर्वस्मिन् स्यादौ विभक्तौ तुल्यरूपाणां सहोक्तौ गम्यायामेकः शिष्यतेऽसंख्येयः । संख्येयवाचिशब्दरूपं वर्जयित्वेत्यर्थः। विरूपस्थले प्रकृतिवैरुप्यादेव न तुल्यरूपतेति सरूपार्थ सूत्रम् । अक्षश्च शकटाक्षः, अक्षश्च देवनाक्षः, अक्षश्च विभीतकाक्ष:-अक्षाः सन्ति ।
-
७-"प्रत्यर्थ शब्दा अभिनिविशन्त" इति न्यायानुरोधात्सरूपविरूपादिनानाशब्दानां समानार्थादीनां सह प्रयोगापत्तिवारणाय एकशेषारम्भ इति बोध्यम् ।