________________
५४६
हैमनूतनलघुप्रक्रिया 'रितरेतरयोमो दधिपयेसी । शुक्लं च कृष्णं नाऽनयोरितरेतरयोगः शुक्लकृष्णे । दीक्षातपसीत्यादि ।
सङ्ख्याने ३।१।१४६॥ इयत्तापरिच्छेदः संख्यानम् । वर्तिपदार्थानां संख्याने गम्यमाने द्वन्द्व एकार्थों न भवति । दश गोमहिषाः । पशुविकल्पो निषिध्यते । एवञ्चेशस्थले इतरेतरयोग एव । यथा-इयन्तो गवावा इत्यादि ॥
राजदन्तादिषु ।३।१।१४९॥ राजदन्त इत्यादिषु समासेष्वप्राप्तपूर्वनिपातं प्रानिपतति । दन्तानां राजा राजदन्तः। अत्र व्याकरणे निर्धारणषष्ठ्याः समासो न निषिध्यते इति षष्ठीसमासे प्रथमोक्तत्वात् दन्तशब्दस्यैव पूर्वनिपातः प्राप्तः। ऋणेऽधमोऽधमर्णः, एवमुत्तमर्णः । अत्र ऋषस्य प्राप्तः। उलूखलं च मुशलं चोलूखलमुशले । अत्राल्पस्वरत्वान्मुशलस्य प्राप्तः। गवाश्वम् । अत्र स्वरादेः प्राप्तः। पुत्रपती, जायापती, दम्पती, जम्पती । स्वस्पती । मणे निपातनाद् जायाया दम्भावो जम्भावश्च । अत्रेदन्तस्य पूर्वप्रयोगः प्राप्तः। आकृतिगणोऽयम् । क्वचिद्विकल्पोऽपि-पुरुषाणामुत्तम उत्तमपुरुषः, पुरुषोत्तमः। मध्यगृहम् , मुडमध्यम् । बिम्बैमिव-बिम्बम् , तच्च सोऽधरश्चा५-इदन्तस्य प्राक्प्रयोगः। ६-यथेष्टं प्राक्मयोगः। कृष्णशुक्ले इत्यपि । - अपत्वात् । १-निस्णिषष्ठयन्तेन षष्ठीसमासः । २-षष्ठी समासः । ३-उपमेयमिति समासः ।