SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ हैमनूत लघु प्रक्रिया ४१७ तदस्य संजातं तारकादिभ्य इतः | ७|१|१३८ ॥ प्रथमान्तेभ्यस्तारकादिभ्यः षष्ठ्यर्थे इतः प्रत्ययो भवति प्रथमान्तं संजातं चेद् भवति । तारकाः संजाता अस्य तारकितं नभः । पुष्पितः बुभुक्षितः, पिपासितः, रोगितः, सुखितः, दुःखितः पण्डा संजाता अस्य पण्डितः । उत्कण्ठितः, फलित इत्यादि । प्रमाणान्मात्रद् |७|१|१४० ॥ प्रथमान्तात्प्रमाणवाचिनो नाम्नः षष्ठयर्थे मात्रट् प्रत्ययो भवति । जानुनी प्रमाणमस्य जानुमात्रमुदकम् । रज्जुमैात्री भूमिः, तन्मात्री; तावन्मात्री ॥ हस्तिपुरुषाद्वाण | ७|१ | १४१ ॥ प्रथमान्तात्प्रेमाणवाचिनो हस्तिशब्दात्पुरुषशब्दाच्च षष्ठ्यर्थे ऽण् प्रत्ययो भवति ।। संयोगादिनः | ७|४|५३ ॥ संयोगात्परो य इन् तदन्तस्याणि परेऽन्त्यस्वरादेर्लुग् न भवति । हस्ती प्रमाणमस्य हास्तिनमुदकम्, हास्तिनी परिखा । पौरुषमुदकम्, पौरुषी छाया । पक्षे मात्रडादि ॥ वो दघ्नट् द्वयसट् | ७|१|१४२ || ऊर्ध्वं यत्प्रमाणं तद्वाचिनो नाम्नः प्रथमान्तात् षष्ठ्यर्थे दघ्नट् द्वयंसद् इत्येती ३- आयाममानं प्रमाणम्, तदूर्ध्वमानं तिर्यग्मानं चेति द्विविधम्, ऊर्ध्वमाने जानुमात्रमित्यादि । तिर्यग्माने रज्जुमात्रीत्यादि । टित्त्वान्ङीः । ४- रज्जुः प्रमाणमस्याः । टित्त्वान्नः ॥
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy