SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया ३२३ पापाज्जुगुप्सते । अत्र पापं दुःखहेतुरिति तदुपश्यतीत्यर्थः। एवं च स्पष्टमेवात्र पूर्व पापस्य बुद्धिविषयीकारः, पश्चाग्निवृत्तिः । न त्वज्ञाते विषये प्रवृत्तिनिवृत्ती भवतः। पापाद्विरमति, धर्मात्प्रमाद्यति, चौराद् बिभेति, उद्विजते, त्रायते, रक्षति वा। अध्ययनाद् भोजनाद्वा पराजयते, यवेभ्यो गां वारयति, उपाध्यायादन्तर्धत्ते, शृङ्गाच्छरो गोमयाद् वृश्चिको गोलोमाविलोमभ्यो दूर्वा वा जायते । हिमवतो गङ्गा प्रभवति । वलभ्याः शत्रुनयः षड्योजनानि । कार्तिक्या आग्रहायणी मासे । चैत्रान्मैत्रः पटुरधिक ऊनो वा । माथुराः पाटलिपुत्रकेभ्य आढ्यतराः। अत्र सर्वत्र बुद्धिसंसर्गपूर्वकोऽपायः। अपादानत्वाविवक्षायां तु यथायोगं विभक्तयो बोध्याः । बलाहके विद्योतते विद्युत् , बीजेऽङ्कुरो जातः, ईश्वरस्य भयेन मिथ्या न वक्ति, चौबिभेति, इत्यादि ॥ आङाऽवधौ ।२।२१७०॥ अवधिमर्यादा, अभिविधिरपि मर्यादाविशेष एव । अवधौ वर्तमानादाङा युक्ताद गौणाभाम्नः पञ्चमी विभक्तिर्भवति । आपाटलिपुत्राद वृष्टो मेघः । आकुमारेभ्यो यशो गीतं कृष्णस्य ॥ पर्वपाभ्यां बज्यै ।।२।७१॥ वर्णनीय बनानात् पर्वमान्यां युक्ताद् गौवाचाम्नः पश्चमी विभक्ति भवति । AN
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy