________________
२८७
हैमनूतनलघुप्रक्रिया भावकरणे पनि परे लग् भवति । रागः, पाकः । कर्तवर्जिते कारके समाहारः, आहार इत्यादि ॥
भूयदोऽल् ।।३।२३॥ भू-श्रि-अद् इत्येतेभ्यः सोपसर्गेभ्यो भावाकोरल् प्रत्ययो भवति । प्रभवः, उपाश्रयः, विधसः॥
ने दगदपठस्वनक्वणः ।५।३।२६॥ नेरुपसर्गात्परेभ्यो नदादिभ्यो धातुभ्यः परो भावाकारल् प्रत्ययो वा भवति । निनदः, निनौदः, निगदः, निगादः, निपठः, निपाठः, निस्वनः, निस्वानः, निक्वणः, निक्वाणः॥
युवर्णवृदृवशरणगमूदग्रहः ।५।३।२८॥ इवर्णान्तेभ्य उवर्णान्तेभ्यो वृत्वशरणगमिभ्य ऋकारान्तेभ्यो ग्रहेश्च धातोर्भावाकोरल् स्यात् । घनोऽपवादः। चयः, निश्चयः, क्रयः, यवः। लवः, स्तवः, पवः, वरः, प्रवरः, दरः, आदरः, वशः, रणः, गमः, अवगमः। कृ-करः, तृ-तरः, ग्रहः। समृहावसरक्रियाभ्यावृत्तिषु बाहुलकाद् घञ् । वारः। परिवार इति ण्यन्तादच् ॥
६-तेऽनिट इति गः, उपान्त्यवृद्धिः । ७-समाहियतेऽसौ समूहः । नामिन इति वृद्धिः । ८-अन्नादिः । ९-नामिन इति गुणः । १०-अयादेशः । ११-घस्लसनेति घस्लादेशः। १२-णितीति वृद्धिः, पक्षे घञ् । १३-निर्दुरिति सः, तवर्गस्येति शः।