SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ हेमनूस लघु प्रक्रिया संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे । कार्यानुबन्धोपपदं, विज्ञातव्यमुणादिषु ॥ १ ॥ क्रियायां क्रियार्थायां तुम् णकच भविष्यन्ती |५|३|१४|| यस्माद् धातोस्तुमादि तद्व्याप्या या क्रिया साऽर्थः प्रयोजनं यस्याः सा क्रियार्थी, तस्यां क्रियायामुपपदे वर्त्यत्यर्थे वर्त्तमानाद्धातोस्तुम् णकच् भविष्यन्ती प्रत्यया भवन्ति । भोक्तुं भोजको भोक्ष्ये इति व्रजति । कर्तु कारकः करिष्यामीति व्रजति ॥ २८५: तुमच मन:कामे | ३| २|१४० ।। तुम् प्रत्ययान्तस्य सम्शब्दस्य च प्रत्येकं मनसि कामे चोत्तरपदे लुगन्तादेशो भवति । भोक्तुं मनोऽस्य भोक्तुमनाः, सम्यङ् मनोऽस्य समनाः । गन्तुं कामोऽस्य गन्तुकामः । सम्यक् कामोऽस्य सकामः ॥ क्त्वा तुमम् भावे |५|१|१३|| क्त्वा तुम् अम् इत्येते प्रत्यया भावे वेदितव्याः । शक घृष ज्ञास्भलभसहार्हग्लाघटास्तिसमर्थार्थे च तुम् |५|४|१०|| शक्याद्यर्थेषु धातुषु समर्थार्थेषु नामसु च चकारादिच्छार्थेषु धातुषूपपदेषु कर्मभूताद् धातोस्तुमम् प्रत्ययो भवति । इह कर्मभूतादिति सामर्थ्याद् शकादिष्वई ४ - संज्ञाशब्देषु धातवः ततः परे प्रत्ययाः, अनुबन्धास्तदाश्रितं कार्ये चोपपदं च स्वयमूह्यमित्याशयः । ५ - समीपोच्चारिते । ६ -चज इति ग, अघोष इति कः । ७- अभ्वादेरिति दीर्घः । ८- म्नां धुड्वर्गे । ९ - धात्वर्थमात्रे ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy