________________
२१२ हैमनूतनलघुप्रक्रिया दशति दन्दश्यते, अदन्दशिष्ट । गर्हितं जभते इति जञ्जभ्यते, अजञ्जभिष्ट । गर्हितं दहति दन्दबते, अदन्दहिष्ट । गर्हितं भनक्तीति बम्भज्यते, अबम्भजिष्ट । गर्हितं पशैति पम्पश्यते, अपम्पशिष्ट ॥
न गृणाशुभरुचः ।३।४॥१३॥ गृणातिशुभिरुचिभ्यो भृशाभीक्ष्ण्यादौ यङ् न स्यात् । गर्हितं गृणाति, भृशं शोभते, भृशं रोचते वाक्यमेव ॥
ईय॑चनेऽयपि ।४।३।९७॥ गा-पा-स्था-सा-दा-माहाक् इत्येषां धातूनामन्त्यस्य यपवर्जिते ङित्यशिति व्यञ्जनादौ प्रत्यये परे ई भवति । पुनः पुनर्भृशं वा गायतीति जेगीयते, अजेगीयिष्ट । पुनः पुनर्भृशं वा पिबतीति पेपीयते पेपीयिता। पुनः पुन शं वा तिष्ठतीति तेष्ठीयते, अतेष्ठीयिष्ट । पुनः पुनर्भृशं वा स्यतीति सेषीयते, सेषीयाञ्चक्रे । सेषीयिता। दासंज्ञः-पुनः पुनरतिशयेन वा ददातीति देदीयते, अदेदीयिष्ट । पुनः पुनर्भृशं वा दधातीति देधीयते, अदेधीयिष्ट । पुनः पुन१-यङि उपान्त्यनलोपः । २-पश बन्धने शन्विकरणः परस्मैपदी । ३
गै घातोरादित्यात्वे ईकारादेशः, ततों द्विरुक्तिः, पर्जन्यवल्लक्षणप्रवृत्या दीर्घवीति दीर्घः । ४-अघोषे शिट इति शिड्लुक् । ५-षो इतिः धातोः षः स इति सत्वे आदित्यात्वम् ।. .