________________
२०५
हैमनूतनलघुप्रक्रिया परे धिप् धीप् इत्येतावादेशौ भवतो न चास्य द्विः । धिप्सति, धीप्सति, अधिप्सीत् , अधीप्सीत् । श्रयितुमिच्छति शिश्रयिषति, शिश्रीषति ॥ युक् मिश्रणे ॥ अदादिरयम् । यवितुमिच्छति यियविषंति, ययुषति । ऊर्णवितुमिच्छति ऊर्जुनु विति, अर्जुनविषति, ऊर्जुनूषति, और्णनुविषीत् , और्जुनविषीत् , और्गुन्षीत् । भर इति. शव विकरणे भृधातुः । भर्तुमिच्छति बिभरिषति, बुभूर्षति, विभरिषते, बुभूपते ।
ज्ञप्यापो ज्ञोपीप् न च द्विः सि सनि ।४।१।१६॥ ज्ञपेरापेश्च सकारादौ सनि परे क्रमाद् ज्ञीप ईप् इत्येतावादेशौ भवतः, न चानयोरेकस्वरोंशो द्विर्भवति । आप्तुमिच्छति ईप्सति, ऐप्सीत् । ज्ञपयितुमिच्छति जिज्ञपयिषति, जीप्सति । तनितुमिच्छति तितनिषति ॥
तनो वा ।४।१।१०५॥ तनोतेधुंडादौ सनि परे स्वरस्य दीपों वा भवति । तितांसति', तितंसति । पतितमिच्छति पिपतिषति ॥ ::
७-कित्त्वान्न गुणः। ८-कित्वाद् गुणाभावे. स्वरहनिति . दीर्घः ।
९-इटि गुणावादेशौ । ओर्जान्तस्थेतीः । १०-वोर्णोरिति ङित्त्वाद् गुणाभावे धातोरित्युत् । ११-इटि गुणायादेशौ । १२-इडभावे । दीर्घ शिड्हे इत्यनुस्वारः ।