________________
हैमनूतन लघुप्रक्रिया भवन्ति । अ इ उ ऋ लृ इति ह्रस्वा: । आ ऊ ऋ लृ ए ऐ ओ औ इति दीर्घाः । अ ३ आ ३ ३ ३ ई ३ इत्यादयः प्लुताः । दूरात्सम्बोधनादौ स्वराः प्लुताः ज्ञेयाः । उदात्तादिसंज्ञास्त्विह नोपयुज्यन्ते इति नोक्ताः । बोधार्थं तु सुहृद् भूत्वा किञ्चिदुच्यन्ते । तत्र हूस्वादयः प्रत्येकमुदात्ता अनुदात्ताः स्वरिताश्च । ताल्वादिषु स्थाने पूर्ध्वभागनिष्पन्नाः स्वरा उदात्ताः। तेष्वेव स्थानेष्वधोभागनिष्पन्नाः स्वराः अनुदात्ताः । तेषु स्थानेषु निष्पचा उभयधर्मयोगात् स्वरिताः स्वराः । ते च प्रत्येकं मुखसहितनासिकयोच्चार्यमाणाः सानुनासिका मुखेनैवोच्चार्यमाणा निरनुनासिकाश्च । तदित्थं ह्रस्वदीर्घप्लुताः
१- वि० वि० कारिका
"एकमात्रो भवेद् हूस्वो, द्विमात्रो दीर्घ उच्यते ।
३
प्लुतः स्वरस्त्रिमात्रः स्याद् व्यञ्जनं चार्धमात्रकम् ॥१॥
,
दूरादामन्त्रणे प्रश्ने, प्रश्नाख्याने च भर्त्सने । सम्मत्यसूया कोपादौ यथायोगं स्वराः प्लुताः || २ || इति ।
टि० २ - वि०वि० का०
"स चैकैकस्त्रिधोदात्तो ऽनुदात्तः स्वरितोऽपि च । पोढा च सानुनासिकनिरनुनासिका इति ॥ १ ॥ उच्चैर्नीचैः समवृत्त्योच्चार्यमाणाः स्वराः क्रमात् । उदात्ताश्चानुदात्ताश्च स्वरिताश्च भवन्त्यमी ॥२॥
३ वि०वि० काo - " मुखनासोच्चार्यमाणो वर्ण: स्यात्सानुनासिकः । मुखेनेोचार्यमाणः ख्यातो निरनुनासिकः || १ ||