________________
१६८
हैमनूतनलघुप्रक्रिया अमुह्यत्, अमुहत्, मुमोह, मुमुहतुः, मुमोहिथ, मुह्यात्, मोहिता, मोग्धा, मोढा, मोहिष्यति, मोक्ष्यति, अमोहिष्यत् , अमोक्ष्यत् ॥ दुहीच जिघांसायाम् ॥ द्रोहिता, द्रोग्धा, द्रोढा, द्रोहिष्यति, ध्रोक्ष्यति, अद्रोहिष्यत् , अधोक्ष्येत् , शेष मुह्यतिवत् । ॥ ष्णिहौच प्रीतौ ॥ सिंष्णेह, स्नेहिता, स्नेग्धा, स्नेढा, स्नेहिष्यति, स्नेक्ष्यति ।। शेषं द्रुह्यतिवत् । इति पुषादयः । अथात्मनेपदिनः । ॥ पदिंच गतौ ॥ पद्यते, पद्येत, पद्यताम् , अपद्यत ॥
निच ते पदस्तलुक् च ।३।४।६६॥ पदिंच गतावित्यस्माद्धातोः कर्त्तयद्यतन्यास्ते परे मिच् प्रत्ययो भवति निमित्तभूतस्य तप्रत्ययस्य लुक् च । अपादि, अपत्साताम् , अपत्सत, अपत्थाः, अपद्ध्वम् , अपद्ध्वम् , पेदे, पत्सीष्ट, पत्तासे, पत्स्यते, अपत्स्यत ॥ युधिंच संग्रहारे ॥ अयुद्ध, अयुत्साताम् , अयुद्ध्वम् , अयुध्वम् , युयुधे, योद्धासे, योत्स्यते, अयोत्स्यत ॥ बुधिंच
१-औ देत्त्वाद्वेट् , पक्षे वा द्रुहेति घत्वे अध इति चतुर्थे तृतीयः, घत्व विकल्पे ढत्वे चतुर्थे टवर्गे ढस्तड्ढ इति ढलोपः । २-इड्विकल्पे घत्वेऽघोष इति प्रथमे षत्वे, घत्वविकल्पे च ढत्वे कत्वे षत्वे च तुल्यं रूपम् । ३-पूर्ववत्प्रक्रिया । ४-इड्विकल्पे घत्वे पक्षे ढत्वे च गडदबादेरिति चतुर्थः । शेषप्रक्रिया पूर्ववत् । ५-नाम्यन्तस्थेति षत्वे णत्वम् । ६-ञ्णितीति वृद्धिः । ७-धुड्हस्वादिति सिज्लोपे अध इति चतुर्थे तृतीयः, सिजाशिषाविति कित्त्वान्न गुणः।