________________
मनूतन लघु प्रक्रिया
१४९
"
1
"
वसिषीष्ट, वसिता, वसिष्यते, अवसिष्यत ॥ आङ्गः शासूकि इच्छायाम् । आशास्ते । प्रायेणायमाङ्पूर्वः, “ नमो वाकं प्रशास्महे " इति दर्शनात् । आशासते, आशाध्वे, आशाध्वे । आशासीत, आशास्ताम् आशास्त । ईशास इति ने प्रवर्तते, आङ्पूर्वस्य शास आस इस् क्विप्येवेति नियमात् । आशासिष्ट, आशशासे । आशासिषीष्ट । आशासिता, आशासिष्यते । आशासियत || आसिक उपवेशने || आस्ते, आध्वे, आध्वे । आसोत, आस्ताम्, आस्स्त्र, आस्त, आसिष्ट, औसांचक्रे । आसिषीष्ट, आसिता, आसिष्यते, आसिष्यत ॥ णिसुकि चुम्बने ॥ निस्ते, निंस्से, निन्ध्वे, निन्दध्वे । निसीत, निस्ताम्, अनिंस्त, अर्निसिष्ट । निनिंसे, निंसिसीष्ट, निंसिता, निंसिष्यते, अनिंसिष्यत ॥ चक्षिक व्यक्तायां वाचि । चेष्टे, चक्षे, चेंडूवे । चक्षीत, चष्टाम्, अचष्ट, अचक्षत ॥
चक्षो वाचि क्शांग् ख्यांग | ४|४|१४|| चक्षिक धातोर्वाचि वर्त्तमानस्याऽशिति प्रत्यये विषयभूते क्शांगू ख्यांग् • इत्यादेशौ भवतः ॥
नवा परोक्षायाम् | ४|४|५|| चक्षिको वाचि परोक्षायां विषये क्शांग् - ख्यांगों वा भवतः । अनुस्वारेश्वमिङभावाय,
१ - आङ्पूर्वः शास् इच्छायामर्थे आत्मनेपदीत्यर्थः । २ - दयायासित्याम् । ३- संयोगस्येति ककारलोपे तवर्गस्येति टः । -४ - संयोगादिलोपे तृतीय : ।