________________
हैमनूतनलघुप्रक्रिया तश्च परस्य शितोऽवितोऽनः स्थाने पुसादेशो भवति । अजक्षुः। अनक्षीत् । जजक्ष, जक्षिथ । जक्ष्यात् , जक्षिता, जक्षिष्यति, अनक्षिष्यत् ॥ इति रुदादयः पञ्च । दरिद्राक् दुर्गतौ ॥ दरिद्राति ।।
इर्दरिद्रः । ४।२।९८॥ दरिद्रातेय॑ञ्जनादौ शित्यविति प्रत्यये वरे आकारस्य इकारो भवति । दरिद्रितः ।।
श्नश्चातः ।४।२।९६॥ द्वयुक्तजक्षपञ्चतः नाप्रत्ययस्य च आकारस्य शित्यविति प्रत्यये परे लुग भवति । दरिद्रति । दरिद्रियात् , दरिदिहि, अदरिद्रात् , अदरिद्रिताम् । अदरिद्रुः॥ . दरिद्रोऽद्यतन्यां वा ।४।३।७६॥ दरिद्रातेरद्यतन्या विषये अन्तस्य वा लुग भवति । अदरिद्रीत् , अदरिद्रासीत् अदरिद्रिष्टाम् । अदरिद्रासिष्टाम् ॥
धातोरनेकस्वरादाम् परोक्षायाः कृभ्वस्ति चानु तदन्तम् ।।४।४६॥ अनेकस्वराद् धातोः परस्याः परोक्षायाः स्थाने आमादेशो भवति, आमन्ताच्च परे कृभ्वस्तयो धातवः परोक्षान्ता अनु पश्चादनन्तरं
१-पक्षे यमिनमीतीट् सोन्तश्च । स्ताद्यशित इति हि सामान्यशास्त्रमिति ध्येयम् ।