________________
८४
हैमनूतन लघुप्रक्रिया -~ mmmmmmmmmm
माझ्यद्यतनी ।५।४।३९॥ माङि उपपदे धातोरद्यतनीविभक्तिर्भवति । सर्वविभक्त्यपवादः। मा भूत् । माङा योगेऽत्रा न॥
सस्मे ह्यस्तनी च ।५।४।४०॥ स्मशब्दसहिते मायुपपदे धातोहस्तनी अद्यतनी च भवति । मा स्म भवत् , मा स्म भूत् ॥ . परोक्षे ।५।२।१२॥ भूतानद्यतने परोक्षेऽर्थे वर्लमानाद धातोः परोक्षाविभक्तिर्भवति ॥
परोक्षा-णव् अतुस्. उस्, थस् अथुस् अ, ण व म। ए आते इरे, से आथे ध्वे, ए वहे महे ।३।३।१२॥ इमानि वचनानि परोक्षासंज्ञकानि भवन्ति । णकारवकारा इतः ॥
द्विर्धातुः परोक्षा प्राक् तु स्वरे स्वरविधेः ।४।१।१॥ परोक्षायां उप्रत्यये च परे धातुर्भिवति, स्वरादौ तु द्विवचननिमित्ते प्रत्यये स्वरस्य कार्यात प्रागेव द्वित्वं भवति॥
हुस्वः ।४।१॥३९॥ धातोदित्वे सति पूर्वस्य स्वरान्तस्य हस्त्रो भवति ।
भूस्वपोरदुतौ ।।१७० भूस्वप् इत्येतयोः परोक्षायां द्वित्वे सति पूर्वस्य यथासंख्यमकारोकारौ भवतः ।।