________________
३२०
सिद्धहमलघुवृत्तौ। [ तृतीयाध्यायस्य पाणौकृत्य । उद्वाह इति किम् ? हस्तकृत्वा काण्डङ्गतः ॥ प्राध्वं बन्धे ॥ १६ ॥ प्राध्वमित्यव्ययं बन्धार्थ कृग्योगे गतिः स्यात् । प्राध्वकृत्य । बन्ध इति किम् ! प्राध्वकृत्वा शकटङ्गतः ॥ जीविकोपनिषदौपम्ये ।। १७ ॥ एतावौपम्ये गम्ये कृग्योगे गती स्याताम् । जीविकाकृत्य, उपनिषत्कृत्य ॥ नाम नाम्नैकार्ये समासो बहुलम् ॥ १८ ॥ नाम नाम्ना सहकार्ये सामर्थ्यविशेषे सति समासो बहुलं स्यात् । लक्षणमिदमधिकारश्च, तेन बहुव्रीह्यादिसङ्गमाभावे यत्रैकार्थता तत्रानेनैव समासः । विस्पष्टपटुः, दारुणाध्यायकः, सार्वचमीणो रथः, कन्ये इव, श्रुतपूर्वः । नामेति किम् ? चरन्ति नाऽलमिति बुद्ध्या परावृत्य गत इत्यर्थः ॥ प्राध्वं बन्धे । प्राध्वमित्येतन्मकारान्तमव्ययमानुकूल्ये वर्तते, तच्चानुकूल्यं यदा बन्धहेतुकं भवति, तदा बन्ध इत्युच्यते, कार्ये कारणोपचारात् , कारणं बन्धः कार्यमानुकूल्यं, बन्ध एवानुकूल्ये वर्तते, अनेकार्थत्वाद्वा निपाताना मुख्य एवास्य बन्धोऽर्थः । प्राध्वङ्कृत्य बन्धनेनाऽऽनुकूल्यं कृत्वेत्यर्थः । प्रार्थनादिना त्वानुकूल्यकरणे प्राध्वं कृत्वा ॥ जीविका चोपनिषच्च, उपमानं उपमा, उपमैव औपम्यं तस्मिन् ॥ जीवय. तीति जीविका जीवनोपायः, जीविकामिव कृत्वा जीविकाकृत्य ।। नाम नाम्नैकोऽर्थो यस्यासावेकार्थः, एकार्थस्य भाव ऐकाय तस्मिन् , समस्यते नामानि यत्रेति समासो, बहुलम् ॥ विभक्तिविरहितानां नाम्नां परस्परं सामाऽसम्भवात् नाम नाम्ना समस्यत इत्यस्य विभत्यन्तं नाम विभक्त्यन्तेन नाम्ना समस्यते, न तु विभक्तिविरहितानां समास इति भावः, अत एव 'गतिकारकङस्युक्तानां विभक्तयन्तानामेव कृदन्तैर्विभक्तयुत्पत्तेः प्रागेव समास' इति न्यायेन कृदन्तस्योत्तरपदस्याविभक्तपन्ततया समासनियमः कृतः । एकाध्ये सामर्थ्यविशेष इति, व्यपेक्षालक्षणमेका भावलक्षणञ्चेति द्विविधं हि