________________
२६२
सिद्धहेमलघुवृत्ती [ द्वितीयाध्यायस्य स्यात् । क्षुभ्नाति, आचार्यानी ॥ पाठे धात्वादेर्णो नः ॥ ९७ ॥ पाठे धात्वादेो नः स्यात् । नयति । पाठ इति किम् ? णकारीयति । आदेरिति किम् ? रणति ॥ षः सोऽष्ट्यैष्ठिवष्वष्कः ॥ ९८ ।। पाठे धात्वादेः षः सः स्यात्, न तु श्यैष्ठिवष्वष्का सम्बन्धी स्यात् । सहते । आदेरित्येव ? लषति । ष्टयादिवर्जनं किम् ? ध्यायति, ठीव्यति, प्वष्कते ॥ करललं कृपोऽकृपीटादिषु ॥ ९९ ॥ कृपेर्ऋत लत् , रस्य च ल् स्यात् , न तु कृपीटादिविषयस्य । क्लप्यते, क्लप्तः, कल्पते, कल्पयति । अकृपीटादिष्विति किम् ? कृपीटः, कृपाणः ।। प्रवृत्तेः णत्वं भवति ॥ पाठे, धातोरादिर्धात्वादिस्तस्य, णः षष्ठी, नः प्रथमा । णकारमिच्छति, सर्वे च नकारादयो धातवो नोपदेशाः, नृतिः, नन्दि, नर्दि, नशि, नाटि, नक्कि, नाधृ, नाथ, नृवर्जम् । नन्वादिग्रहणं किमर्थं तमन्तरेणापि भणित्यादौ णोपदेशबलात् नत्वं न भविष्यति, अन्यथा भनित्येव पठयेत, मैवम् , णोपदेशस्य ‘अदुरुपसर्गे'ति णत्वे फलमस्ति, तथाहि, उपसर्गपूर्वस्य प्रभणति, अन्यत्र तु भनतीति स्यात्, अत आदिग्रहणं कर्त्तव्यमेव ॥ षः षष्ठी, स प्रथमा, ष्ट्यैश्च ष्ठिवश्च व्वक् च ततो नमसमासस्तस्य । पाठे धात्वादेरित्यनुवर्तते । षहि मर्षणे, अनेन सूत्रेण सह । टौँ संघाते, ष्ठिवू निरसने, ध्वष्कि गतौ । स्वरदन्त्यपरसकारादयः स्मि स्विदि स्वदि स्वञ्जि स्वपयश्च षोपदेशाः । सृपि सृजि स्त्या स्त स्तृ स से कृवर्जम् ॥ ऋश्च र च ऋर् तस्य, लश्च लश्च लुलम्, कृपः षष्ठी, कृपीट् आदिर्येषान्ते, न कृपीटादयस्तेषु ॥ कृपौङ सामर्थे, 'क्यः शिति' वर्तमाने ते, अनेन लकारः, कप्रत्यये क्लुप्तः । कल्पते वर्तमाने ते, शव, 'लघोरुपान्त्यस्येति गुणः, अनेन रस्य लः । अथ 'वर्णैकदेशा वर्णग्रहणेन गृह्यन्ते' इति न्यायादृकारलूकारयो रेफलकारग्रहणे. नैव ग्रहणारिक द्वयोरुपादानेन कृपे रोल इत्येव क्रियताम् , ऋका.