________________
२६० सिद्धहेमलघुवृत्तौ द्वितीयाध्यायस्य प्रभावनम् । प्रभायमानं प्रभायना । प्रकामिनौ, प्रकामना । अप्रगमनिः, प्रगमना । प्रप्यानः, प्रप्यायना । प्रवेपनीयं प्रवेपना ॥ देशेऽन्तरोऽयनहनः ॥ ९१ ॥ अन्तःशब्दात्परस्यायनस्य हन्तेश्च नो देशेऽर्थे ण न स्यात् । अन्तरयनोऽन्तर्हननो वा देशः । देश इति किम् ? अन्तरयणमन्तहण्यते ॥ षात्पदे ॥ ९२ ।। पदे परतो यः षस्ततः परस्य नो ण् न स्यात् । सपिप्पानम् । पद इति किम् ! सपिकेण ॥ पदेऽन्तरेऽनाङ्तद्धिते ॥ ९३ ॥ आङन्तं तद्धितान्तं च मुक्काऽन्यस्मिन्पदे निमित्तकार्यिणोरन्तरे नो ण् न स्यात् । प्रावनद्धम् , रोषभीममुखेन । अनाङीति किम् ? प्राणद्धम् । अतद्धित इति किम् ? ग्रहणम् । पूगो गकारः पवतेनिवृत्त्यर्थः । प्रख्यायत इति प्रख्यानम. नट्प्रत्ययः । प्रख्याति कश्चित् , तं प्रख्यान्तमन्यः प्रयुङ्क्ते, णिग, 'अतिरी' पोन्तः प्रख्याप्यत इति प्रख्यापनम् । एवमप्रेऽपि । अण्यन्तेभ्यः स्वरादिति नित्यम् , ण्यन्तेभ्यश्च ‘णे 'ति विकल्प प्राप्ते निषेधः । वेपस्तु व्यञ्जनादेरि'त्यण्यन्तादपि विकल्पे प्राप्ते प्रतिषेधः॥ देशे, अन्तरः पञ्चमी, अयनश्च हन् च तस्य ॥ अदुरुपसर्गान्तर इति निवृत्तम् , पृथगन्तःशब्दोपादानात् । नेति वर्तते, एवमप्रेऽपि । अंतरय्यतेऽस्मिन्नित्यन्तरयनो देशः। 'स्वरादिति 'हन' इति च क्रमेण णत्वे प्राप्ते निषेधः । षात् , पदे ।। सार्पिषः पानं सर्पिष्पानं, 'स्वरादिति प्राप्ते प्रतिषेधः । अत्र षकाराऽऽश्रितणत्वस्याभावेऽपि रेफाश्रितं णत्वं कथं न स्यादिति चेदुच्यते, यत्र णत्वस्य निमित्तद्वयं भवति तत्र प्रत्यासत्त्याऽनन्तरमेव गृह्यते, अतो न रेफाश्रितं णत्वम्॥पदे, अन्तरे, न आङ अनाङ् तस्मिन् , न विद्यते तद्धितो यस्मात्तस्मिन् । अनाडि अतद्धित इत्याङन्ततद्धितान्तयोर्वर्जनम् । प्रावनद्धमित्यत्र रकारनकारयोमध्ये आइभिन्नस्यावस्य सत्त्वान्न णत्वम् । अत्र रोषेण भीम रोषभीमम्, रोषभीमं मुखं यस्येति विग्रहे भीमपदस्य तृतीयासमासे