SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ १८८ सिद्धहेमलघुवृत्तौ द्वितीयाध्यायस्य मभि । लक्षणादिष्विति किम् ? यदत्र ममाभि स्यात्तद्दीयताम् । भागिनि च प्रतिपर्यनुभिः ॥ ३७॥ स्वीकार्योऽशो भागः, तत्स्वामी भागी, तत्र लक्षणादिषु च वर्तमानात् प्रत्यादिभिर्युक्ताद् द्वितीया स्यात् । यदत्र मां प्रति, मां परि, मामनु स्याचद्दीयताम् वृक्षं प्रति परि अनु वा विद्युत् । वृक्षं वृक्षं प्रति पर्यनु वा सेकः । साधुमैत्रो मातरं प्रति पर्यनु वा । एतेष्विति किम् ? अनु वनस्याऽशनिर्गता ॥ हेतुसहार्थेऽनुना ॥ ३८ ॥ हेतुर्जनकः । सहार्थस्तुल्ययोगो विद्यमानता च, तद्विषयोऽप्युपचारात् , तयोर्वर्तमानादनुना युक्ताद्वितीया स्यात् । जिनजन्मोत्सवमन्वागच्छन्सुराः, गिरिमन्वासिता सेना ॥ उत्कृष्टेऽनूपेन ॥ ३९ ।। उत्कृष्टार्थादनूपाभ्यां युक्ताद्वितीया स्यात् । अनुसिद्धसेनं कवयः । उपोमास्वाति सङ्ग्रहीमातुर्विषयता, योऽसौ मातुरिस्थम्भावप्राप्त्या विषयविषयीभावलक्षणः सम्बन्धः सोऽभिना द्योत्यते । यदत्र ममामि स्यात्तद्दीयतां योऽत्र मम भागः स्यादित्यर्थः, अत्राभिना भागसम्बन्धो द्योत्यते ॥ भागो विद्यते यस्य तस्मिन्मागिनि, च, प्रतिश्च परिश्चानुश्च तैः । लक्षणवीप्स्येत्थम्भूतेष्विति चेन समुच्चीयते । वृक्षं वृक्षं प्रति विद्योतते विद्यु. दित्यादौ लक्ष्यलक्षणभावः प्रत्यादिद्योत्यः ॥ सहस्यार्थः सहार्थः, हेतुश्च सहार्थश्च तस्मिन्ननुना तृतीया ॥ हेतुर्द्विविधो जनको ज्ञापकश्च, तत्र ज्ञापकस्य लक्षणत्वादागिनीति सूत्रेणैव द्वितीयासिद्धे जनक एवेह गृह्यते । जिनजन्मोत्सवमन्वागच्छन् सुराः, अत्र जिनजन्मोत्सवो हेतुः, सुरागमनं हेतुमत् , तत्र जिनजन्मोत्सवस्य हेतुभावः सुरागमनापेक्षः सोऽनुना द्योत्यते, तेन हेतुनेत्यर्थः। 'हेतुकर्तृकरणे'त्यस्य बाधकोऽयम् । गिरिमन्वासिता सेना, गिरिणा सह सम्बद्धेत्यर्थः । उत्कृष्ट अनुश्चोपश्चानूपं तेन । उत्कृष्टशब्दो हीनापेक्षस्तेन हीनोत्कृष्टसम्बन्धे. ऽनुना द्योत्ये द्वितीयानेन विधीयते । सिद्धसेनकविनिर्दिष्टस्य हीनो
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy